विंशतिर्योजनानां हि माथुरं मम मण्डलम् 168.
न मया कथितं देवि ब्रह्मणश्च महात्मनः
मया सुगोपितं पूर्वं गुह्याद्गुह्यतरं परम्
तस्यां तिष्ठन्ति तीर्थानि तानि वक्ष्यामि तच्छृणु
तीर्थसंख्या च वसुधे मथुरायां मयोदिता
प्रस्कन्दनं च भाण्डीरं कुरुक्षेत्रसमानि षट्
असिकुण्डं सवैकुण्ठं कोटितीर्थोत्तमं स्मृतम्
चक्रतीर्थं तथाक्रूरं द्वादशादित्यसंज्ञितम्
कुरुक्षेत्राच्छतगुणं मथुरायां न संशयः
मथुरायास्तु माहात्म्यं ते यान्ति परमं पदम्
एतन्मरणकाले तु यः स्मरेत्प्रयतो नरः 168.
एतत्ते कथितं देवि सर्वपातकनाशनम्
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरामाहात्म्ये अष्टषष्ट्यधिकशततमोऽध्यायः
श्रीवराह उवाच तस्यां वसाम्यहं देवि मथुरायां च सर्वदा
सर्वेषामेव तीर्थानां मथुरा च परं महत्
चक्रस्थितं हि तत्सर्वं कृष्णस्यैव पदेन तु
तत्रैव वासिनो लोका मुक्तिं यान्ति न संशयः
तयोर्मध्ये स्थितो देव आकारात्सोमचक्रता
तस्माद्धि मरणं चात्र द्वे कोटी सर्वकर्मसु
तेन वै चाक्षया लोकाः प्राप्ताश्चैव न संशयः यज्ञोपवीतमात्रेण त्रायन्ते च कुलं बहु
पृथिव्युवाच
दक्षिणस्यां समारभ्य उत्तरस्यां समापयेत् 169.
मनुजा येन विधिना मुक्तिं यान्ति न संशयः गृहान्निःसृत्य मौनेन यावत्स्नानं समाचरेत्
पूजां कृष्णस्य कृत्वा वै ततो ब्रूयाद्वसुन्धरे
कृष्णस्य कृत्वा तु मखं स्नानादीनि यथाक्रमम्
ब्राह्मणान्भोजयेत्पश्चाद्विधिरेष उदाहृतः
न तस्य पुनरावृत्तिर्मम लोके महीयते
अन्यत्र तु मृता ये च अर्धचन्द्रकृतक्रियाः
यावदस्थीन्यर्द्धचन्द्रं यस्य तिष्ठन्ति देहिनः
अर्द्धचन्द्रे विशेषोऽस्ति तीर्थे विश्रान्तिसंज्ञके