अनाचारादि हेतोश्च राक्षसत्वमुपागतः 167.
तस्य दुःखेन संयुक्तो विप्रोऽसौ वाक्यमब्रवीत् मित्रत्वे वर्त्तसे रक्षस्तव दास्यामि किं वद
आत्मना चोपकारेण प्रियं किं करवाणि ते ददासि यदि तद्विप्र यन्मे मनसि वर्त्तते
मथुरायां च यत्स्नातं कृतं विश्रान्तिसंज्ञके
तेन दुःखेन संयुक्तो विप्रो वाक्यमथाब्रवीत् कथं जानासि रक्षस्त्वं तीर्थं विश्रान्तिसंज्ञकम्
कथं च संज्ञा तस्याभूत्कथय त्वं हि राक्षस पुरी उज्जयिनी नाम्ना तस्यां वासो हि मे सदा
कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम्
विश्रान्तितीर्थमाहात्म्यं श्रावयन्स दिनेदिने
सा संज्ञा च श्रुता तत्र विश्रान्तेश्च मयाऽनघ
विश्रामं कुरुते तत्र तेन विश्रान्तिसंज्ञिता
एकस्नानस्य हि फलं तव दत्तं च राक्षस 167.
इति श्रीवराहपुराणे मथुरामाहात्म्ये विश्रान्तिमाहात्म्यं नाम सप्तषष्ट्यधिकशततमोऽध्यायः
धरण्युवाच तेन दृष्टेन यत्पुण्यं कथयस्वाखिलं प्रभो
श्रीवराह उवाच तस्य दर्शनमात्रेण मथुरायां फलं भवेत्
पुरा वर्षसहस्रं तु तपस्तप्तं सुदारुणम्
वरं वरय भद्रं ते यस्ते मनसि वर्त्तते सर्वगस्त्वं हि देवेश मया ज्ञातं सुनिश्चितम्
मथुरायां च मे स्थानं सदा देव प्रदीयताम्
मथुरायां च देव त्वं क्षेत्रपालो भविष्यसि
अन्यथा नाप्नुयात् सिद्धिमेवमेतन्न संशयः
भजते मनुजः सिद्धिमात्मभावेन तादृशीम्
विंशतिर्योजनानां हि माथुरं मम मण्डलम् 168.
न मया कथितं देवि ब्रह्मणश्च महात्मनः
मया सुगोपितं पूर्वं गुह्याद्गुह्यतरं परम्
तस्यां तिष्ठन्ति तीर्थानि तानि वक्ष्यामि तच्छृणु
तीर्थसंख्या च वसुधे मथुरायां मयोदिता
प्रस्कन्दनं च भाण्डीरं कुरुक्षेत्रसमानि षट्
असिकुण्डं सवैकुण्ठं कोटितीर्थोत्तमं स्मृतम्
चक्रतीर्थं तथाक्रूरं द्वादशादित्यसंज्ञितम्
कुरुक्षेत्राच्छतगुणं मथुरायां न संशयः
मथुरायास्तु माहात्म्यं ते यान्ति परमं पदम्