तत्राश्चर्यं प्रवक्ष्यामि मनःकर्णसुखावहम्
द्वादश्यां च चतुर्दश्यां श्रद्दधाना जितेन्द्रियाः
तस्मिन्काले ह्यहं देवि मथुरायां समागतः
तत्र कृत्वा च हैरण्या मूर्त्तयश्च चतुर्विधाः
सुदृढाः सुदृशः सुभ्रू यः पश्यति स मुच्यते
वामनस्य तृतीया वै चतुर्थी राघवस्य च
चतुःसागरपर्यन्ता क्रान्ता तेन धरा ध्रुवम्
तत्र सर्वेषु तीर्थेषु असिकुण्डं महत्तरम्
असिकुण्डं समारभ्य तीर्थानुक्रमणिका वरा
मूर्त्तीः पश्यति यस्तास्तु ब्रह्मभूयाय कल्पते 166.
इति श्रीवराहपुराणे असिकुण्डप्रभावो नाम षट्षष्ट्यधिकशततमोऽध्यायः
श्रीवराह उवाच राक्षसेन पुरा प्रोक्ता ब्राह्मणाय महात्मने
पृथिव्युवाच किमर्थं पृष्टवान्विप्रः सर्वं कथय मे प्रभो
श्रीवराह उवाच न स पूजयते देवान्न स साधून्नमस्यति
पुण्यतीर्थं समासाद्य न च स्नानं करोति सः
सन्ध्ये द्वे शयने चैव नित्यं मूढः स तिष्ठति
पापाचाररतो नित्यं पापसङ्गः सुदुर्मतिः
गार्हस्थ्यं सर्वधर्माणां श्रेष्ठमुक्तं स्वयंभुवा
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
ततः स चौर्यं कुर्वाणः पापैः सह नराधमः
पलायमानः स परमन्धकूपेऽपतत्तदा 167.
अन्धकूपे स पतितो घोररूपोऽवसत्तदा
तेषां मध्ये द्विजः कश्चिद्रक्षां कृत्वा वसुन्धरे
तत्रागत्य च रक्षस्तु ब्राह्मणं वाक्यमब्रवीत् अहं दास्यामि ते विप्र यत्ते मनसि वर्त्तते
बहुकालेन संप्राप्तं भोजनं च यथेप्सितम्
येनाहं भक्षये सार्थं यावत्तृप्तिर्भवेन्मम
एकः सार्थं प्रयातोऽहं नोत्सृजामि कथंचन
निरीक्षितुं न शक्तोऽसि मम मन्त्रबलेन हि मम भक्ष्ये हते विप्र दोषस्तव भविष्यति
दयां कुरु त्वं विप्रर्षे भोजनं मम दीयताम्
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः