सर्वाणि तत्र तीर्थानि तिष्ठन्ति विविधानि च
युद्धं विमतिना सार्द्धं स्वयं कर्त्तुं न शक्नुमः
गतानि तत्र तीर्थानि कल्पग्रामं वसुन्धरे
यावन्निरीक्षयाम्यग्रं तावत्तिष्ठन्ति सन्निधौ जय विष्णो जयाचिंत्य जय देव जयाच्युत
जय विश्वेश कर्त्तेश जय देव नमोऽस्तु ते तीर्थैः स्तुतोऽहं वसुधे वचनं चेदमब्रुवम्
वरं वृणुत भद्रं वो यद्वो मनसि वर्त्तते वराह यदि देवेश अभयं दातुमर्हसि
सुपापिना विमतिना कृतस्त्रासः सुदारुणः
श्रीवराह उवाच तत्र तीर्थनियोगेन आगतो मथुरां पुरीम्
तत्रागते तु वसुधे युद्धं कृत्वा तु तेन वै सूदितो हि मया देवि अस्यग्रं निहितं भुवि
असेरग्रेण तूद्धृत्य मृत्तिकां वरवर्णिनि असिकुण्डेति संज्ञा च प्राप्ता तेन वसुन्धरे ।।166.
तत्राश्चर्यं प्रवक्ष्यामि मनःकर्णसुखावहम्
द्वादश्यां च चतुर्दश्यां श्रद्दधाना जितेन्द्रियाः
तस्मिन्काले ह्यहं देवि मथुरायां समागतः
तत्र कृत्वा च हैरण्या मूर्त्तयश्च चतुर्विधाः
सुदृढाः सुदृशः सुभ्रू यः पश्यति स मुच्यते
वामनस्य तृतीया वै चतुर्थी राघवस्य च
चतुःसागरपर्यन्ता क्रान्ता तेन धरा ध्रुवम्
तत्र सर्वेषु तीर्थेषु असिकुण्डं महत्तरम्
असिकुण्डं समारभ्य तीर्थानुक्रमणिका वरा
मूर्त्तीः पश्यति यस्तास्तु ब्रह्मभूयाय कल्पते 166.
इति श्रीवराहपुराणे असिकुण्डप्रभावो नाम षट्षष्ट्यधिकशततमोऽध्यायः
श्रीवराह उवाच राक्षसेन पुरा प्रोक्ता ब्राह्मणाय महात्मने
पृथिव्युवाच किमर्थं पृष्टवान्विप्रः सर्वं कथय मे प्रभो
श्रीवराह उवाच न स पूजयते देवान्न स साधून्नमस्यति
पुण्यतीर्थं समासाद्य न च स्नानं करोति सः
सन्ध्ये द्वे शयने चैव नित्यं मूढः स तिष्ठति
पापाचाररतो नित्यं पापसङ्गः सुदुर्मतिः
गार्हस्थ्यं सर्वधर्माणां श्रेष्ठमुक्तं स्वयंभुवा
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः
ततः स चौर्यं कुर्वाणः पापैः सह नराधमः