कथं धारयसे प्राणान्वृक्षमूलं समाश्रितः ।। 165.
प्रेत उवाच वाचकाय तु यद्दत्तं सुवर्णस्य च माषकम्
तद्दानस्य प्रभावेण नित्यं तृप्तोऽस्मि वै विभो
प्रेतभावं गतस्यापि न मे ज्ञानस्य विभ्रमः
कृतं तेन च तत्सर्वं यथा प्रेतेन भाषितम्
एतत्ते कथितं भूमे माहात्म्यं मथुराभवम्
तीर्थे चैव गृहे वापि देवस्थानेऽपि चत्वरे
अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति
मथुरायां कृतं पापं तत्रैव च विनश्यति
कृतघ्नश्च सुरापश्च चौरो भग्नव्रतस्तथा
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् 165.
परदाररता ये च ये नरा अजितेंद्रियाः
बलिभिक्षाप्रदातारस्ते मृताः क्रोधवर्जिताः
यदन्येषां सहस्रेण ब्राह्मणानां महात्मनाम्
अनृग्वै माथुरो यत्र चतुर्वेदस्तथापरः
भवन्ति सर्वतीर्थानि पुण्यान्यायतनानि च
चतुर्वेदं परित्यज्य माथुरं पूजयेत्सदा
मथुरावासिनो लोकान्पश्यन्ति च चतुर्भुजान्
ज्ञानिनस्तान्हि पश्यन्ति अज्ञाः पश्यन्ति तान्न च
इति श्रीवराहपुराणे मथुरामाहात्म्ये कूपप्रभावे ब्राह्मणमाहात्म्यं नाम पंचषष्ट्यधिकशततमोऽध्यायः
धरण्युवाच असिकुण्डेति संज्ञेयं तन्मे त्वं कथय प्रभो
श्रीवराह उवाच तीर्थयात्रानिमित्तेन स्वर्गलोकं गतः पुरा
गते स्वर्गं तु नृपतौ पुत्रो राज्यं चकार ह
राज्यं च कुर्वतस्तस्य आगतो नारदस्तदा
प्रतिगृह्य च तत्सर्वं तमुवाच स नारदः
इत्युक्त्वा नारदस्तत्र तत्रैवान्तरधीयत
तदा किमुक्तमृषिणा नारदेन पितुः कृते
मन्त्रिणश्च ततो ज्ञात्वा पितुर्मरणमेव च
अतएवोक्तमानृण्यं नारदेन पितुस्तव
विमतेर्बुद्धिरुत्पन्ना गच्छामो मथुरां पुरीम् 166.