कुटुम्बभरणार्थाय सम्प्राप्तो दुर्गमाटवीम् 165.
मयि सम्भक्षिते रक्षः कुटुम्बं हि मरिष्यति
कस्मात्स्थानात्समायातः सत्यं ब्रूहि महामते
विभुरुवाच तयोर्मध्ये पुरी रम्या मथुरा लोकविश्रुता
तस्यां वसाम्यहं प्रेत पितृपैतामहे गृहे
तत्सर्वं तस्करैर्नीतं क्षीणवित्तोऽभवं तदा
तव दृष्टिपथं यातो यत्कार्यं तत्कुरुष्व मे
प्रेत उवाच समयेन हि मोक्ष्यामि कुरुष्व वचनं मम
निर्वृत्य गच्छ मथुरां मम कार्यार्थसाधकः
स्नानं कृत्वा तु विधिवत्कूपे चातुःसामुद्रिके
स्नानस्य च फलं देहि ततो गच्छ यथासुखम् ।। प्रेतवाक्यं ततः श्रुत्वा विभुर्वचनमब्रवीत्।165.
नाहं यास्यामि मथुरां द्रव्याभावे कथंचन
प्रेत उवाच आस्ते धनमपर्याप्तं गच्छ त्वं मा विलम्बय
विभुरुवाच गृहशेषं मम धनं न चान्यत्तत्र विद्यते
पितृपैतामही कीर्त्तिरविक्रेया हि सा मया
अस्ति चैव धनं प्रोक्तं यन्मया त्वद्गृहे विभो
निवर्त्त गच्छ संतुष्टः सुहृदां प्रीतिवर्द्धनः
सूत उवाच इमामवस्थां सम्प्राप्य कथं ज्ञानसमुद्भवः
ततः स कथयामास यद्वृत्तं हि पुरातनम्
प्रभातसमये तत्र विष्णोरायतने शुभे
वाचकस्तत्र पठति कथां पौराणिकीं शुभाम् 165.
तस्मिन्काले तु मित्रेण नीतोऽहं विष्णुमन्दिरम्। अत्यादरेण महता सन्तोष्य च पुनः पुनः
मित्रेण सह तत्रैव तस्य पार्श्वे व्यवस्थितः
समुद्राः किल तिष्ठन्ति चत्वारोऽत्र समागताः
वाचकाय ततो दानं दत्तं सर्वैर्महाजनैः
मित्रेण च पुनः प्रोक्तं यथाशक्त्या प्रदीयताम्
ततः कालेन महता गतो वैवस्वतक्षयम्
प्रेतत्वं समनुप्राप्तो दुस्तरं दुर्गमं महत्
न तर्पितास्तु पितरः प्राप्तोऽहं प्रेततां ततः
गच्छ त्वं सम्मुखस्तत्र यत्र सा मथुरा पुरी