इति श्रीवराहपुराणे मथुरामाहात्म्यान्तर्गते गोवर्द्धनमाहात्म्येऽन्नकूटपरिक्रमप्रभावो नाम चतुःषष्ट्यषिकशततमोऽध्यायः
श्रीवराह उवाच यथावृत्तं प्रतिष्ठाने दक्षिणापथमण्डले
सुशीलो नाम वैश्यस्तु तस्मिन्वसति पत्तने
कुटुम्बभरणासक्तो नित्यकालं हि तिष्ठति
क्रयविक्रयसक्तस्य कालो दीर्घो गतस्तदा
न तेन धर्मश्रवणं कदाचिदपि संश्रुतम्
आत्मोदरनिमित्तं हि पापं च कुरुते सदा
न तस्य जायते बुद्धिर्दानं दातुं कदाचन
धनयुक्तोऽपि पापोऽसौ न ददाति कदाचन
स तु कालेन महता कुटुम्बासक्तमानसः
त्यक्त्वा जगाम निधनं प्रेतत्वं समुपागतः 165.
परिभ्रमन्क्षुधाविष्टो मरुदेशं गतोऽपि सः
कदाचिद्दैवयोगेन तत्र सार्थ उपागतः
गते सार्थे तु स वणिक् तं वृक्षं समुपाश्रितः
दीर्घदंष्ट्रः सुविकटो ह्रस्वबाहुर्विभीषणः
अथ कालेन बहुना दैवयोगेन भामिनि
तं दृष्ट्वा दूरतः प्रेतश्चातिहर्षेण संयुतः
भक्ष्यभूतो ममाद्यत्वं क्व भवान्यातुमिच्छति
गच्छन्तं तं गृहीत्वा स प्रेतो वचनमब्रवीत्
मांसं ते भक्षयिष्यामि पिबामि तव शोणितम्
कुटुम्बभरणार्थाय सम्प्राप्तो दुर्गमाटवीम् 165.
मयि सम्भक्षिते रक्षः कुटुम्बं हि मरिष्यति
कस्मात्स्थानात्समायातः सत्यं ब्रूहि महामते
विभुरुवाच तयोर्मध्ये पुरी रम्या मथुरा लोकविश्रुता
तस्यां वसाम्यहं प्रेत पितृपैतामहे गृहे
तत्सर्वं तस्करैर्नीतं क्षीणवित्तोऽभवं तदा
तव दृष्टिपथं यातो यत्कार्यं तत्कुरुष्व मे
प्रेत उवाच समयेन हि मोक्ष्यामि कुरुष्व वचनं मम
निर्वृत्य गच्छ मथुरां मम कार्यार्थसाधकः
स्नानं कृत्वा तु विधिवत्कूपे चातुःसामुद्रिके