सनकादयो निवृत्त्याख्ये तेन धर्मे प्रयोजिताः । प्रवृत्त्याख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ।। २.
योऽसौ प्रजापतिस्त्वाद्यो दक्षिणाङ्गुष्ठसंभवः । तस्यादौ तत्र वंशेन जगदेतच्चराचरम् ।। २.
देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः । सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।। २.
योऽसौ रुद्रेति विख्यातः पुत्रः क्रोधसमुद्भवः । भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्ठिनः ।। २.
अर्द्धनारीनरवपुः प्रचण्डोऽतिभयंकरः । विभजात्मानमित्युक्तो ब्रह्मणाऽन्तर्दधे पुनः ।। २.
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं चकार सः । बिभेद पुरुषत्वं च दशधा चैकधा च सः । ततस्त्वेकादश ख्याता रुद्रा ब्रह्मसमुद्भवाः ।। २.
अयमुद्देशतः प्रोक्तो रुद्रसर्गो मयाऽनघे । इदानीं युगमाहात्म्यं कथयामि समासतः ।। २.
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । एतस्मिन् ये महासत्त्वा राजानो भूरिदक्षिणाः । देवासुराश्च यं चक्रुर्धर्मं कर्म च तच्छृणु ।। २.
आसीत् प्रथमकल्पे तु मनुः स्वायंभुवः पुरा । तस्य पुत्रद्वयं जज्ञे अतिमानुषचेष्टितम्। प्रियव्रतोत्तानपादनामानं धर्मवत्सलम् ।। २.
तत्र प्रियव्रतो राजा महायज्वा तपोबलः । स चेष्ट्वा विविधैर्यज्ञैर्विपुलैर्भूरिदक्षिणैः ।। २.
सप्तद्वीपेषु संस्थाप्य भरतादीन् सुतान् निजान् । स्वयं विशालां वरदां गत्वा तेपे महत् तपः ।। २.
तस्मिन् स्थितस्य तपसि राज्ञो वै चक्रवर्त्तिनः । उपेयान्नारदस्तत्र दिदृक्षुर्धर्मचारिणम् ।। २.
स दृष्ट्वा नारदं व्योम्नि ज्वलद्भास्करतेजसम् । अभ्युत्थानेन राजेन्द्र उत्तस्थौ हर्षितस्तदा ।। २.
तस्यासनं च पाद्यं च सम्यक् तस्य निवेद्य वै । स्वागतादिभिरालापैः परस्परमवोचताम् । कथान्ते नारदं राजा पप्रच्छ ब्रह्मवादिनम् ।। २.
प्रियव्रत उवाच । भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते । युगे दृष्टं श्रुतं वाऽपि तन्मे कथय नारद ।। २.
नारद उवाच । आश्चर्यमेकं दृष्टं मे तच्छृणुष्व प्रियव्रत । ह्यस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् । द्वीपं तत्र सरो दृष्टं फुल्लपङ्कजमालिनम् ।। २.
सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् । दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् ।। २.
पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् । काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया । कर्त्तव्यं चारुसर्वाङ्गि तन्ममाचक्ष्व शोभने ।। २.
एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा । स्मृत्वा तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् ।। २.
विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव ह । योगशास्त्राणि शिक्षाश्च वेदानां स्मृतयस्तथा ।। २.
सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् । ततोऽहं विस्मयार्विष्टश्चिन्ताशोकसमन्वितः ।। २.
तामेव शरणं गत्वा यावत् पश्यामि पार्थिव । तावद् दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ।। २.
तस्यापि पंसो हृदये त्वपरस्तस्य चोरसि । अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।। २.
एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः । क्षणेन तत्र कन्यैका न तान् पश्यामि सुव्रत ।। २.
ततः पृष्टा मया देवी सा कुमारी कथं मम । वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ।। २.
कन्योवाच । माताऽहं सर्ववेदानां सावित्री नाम नामतः । मां न जानासि येन त्वं ततो वेदा हृतास्तव ।। २.
एवमुक्ते तया राजन् विस्मयेन तपोधन । पृष्टा क एते पुरुषा एतत्कथय शोभने
कन्योवाच य एष मच्छरीरस्थः सर्वाङ्गैश्चारुलोचनः । एष ऋग्वेदनामा तु देवो नारायणः स्वयम् । वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।। २.
एतस्य हृदये योऽयं दृष्ट आसीत् त्वयात्मजः । स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।। २.
तस्याप्युरसि संविष्टो य एष शुचिरुज्ज्वलः । स सामवेदनामा तु रुद्ररूपी व्यवस्थितः । एष आदित्यवत् पापान्याशु नाशयते स्मृतः ।। २.