देवा देव्यस्तथा गावो ऋषिभिश्च समन्विताः
तस्मिन्स्थाने तर्पणेन शतक्रतुफलं लभेत्
स्नात्वा पितॄन्समभ्यर्च्य ब्रह्मलोकमवाप्नुयात्
यत्र स्नानाद्दर्शनाच्च वाजपेयफलं लभेत् 164.
कुण्डे स्नात्वा पितॄँस्तर्प्य कृतकृत्यो दिवं व्रजेत्
अरिष्टेन समं यत्र महद्युद्धं प्रवर्त्तितम्
कोपेन पार्ष्णिघातेन मह्यां तीर्थं प्रवर्तितम्
स्नातस्तत्र तदा कृष्णो वृषं हत्वा महासुरम्
वृषो हतो मया चायमरिष्टः पापपूरुषः
स्वनाम्ना विदितं कुण्डं कृतं तीर्थमदूरतः
अरिष्टराधाकुण्डाभ्यां स्नानात्फलमवाप्नुयात्
गोनरब्रह्महत्यायाः पापं क्षिप्रं विनश्यति
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
इन्द्रध्वजमिति ख्यातं तीर्थ चैवातिमुक्तिदम् 164.
ततो हरो निवेद्याशु यात्राफलमनुत्तमम्
समाप्य तीर्थयात्रां च रात्रौ जागरणं तथा
एकादश्यां तदा रात्रौ कृत्वा जागरणं शुभम्
पितॄणां मुक्तिदं तेषां य एवं कुरुते नरः
एतत्ते कथितं भद्रे अन्नकूटपरिक्रमम्
य एतच्छृणुयाद्भक्त्या तीर्थानुकमणं हरेः
इति श्रीवराहपुराणे मथुरामाहात्म्यान्तर्गते गोवर्द्धनमाहात्म्येऽन्नकूटपरिक्रमप्रभावो नाम चतुःषष्ट्यषिकशततमोऽध्यायः
श्रीवराह उवाच यथावृत्तं प्रतिष्ठाने दक्षिणापथमण्डले
सुशीलो नाम वैश्यस्तु तस्मिन्वसति पत्तने
कुटुम्बभरणासक्तो नित्यकालं हि तिष्ठति
क्रयविक्रयसक्तस्य कालो दीर्घो गतस्तदा
न तेन धर्मश्रवणं कदाचिदपि संश्रुतम्
आत्मोदरनिमित्तं हि पापं च कुरुते सदा
न तस्य जायते बुद्धिर्दानं दातुं कदाचन
धनयुक्तोऽपि पापोऽसौ न ददाति कदाचन
स तु कालेन महता कुटुम्बासक्तमानसः