यमस्य भवनं गत्वा मोदते कृतनिश्चयः तत्रैव वारुणं तीर्थमासाद्य स्नानमाचरेत्
वारुणं भवनं गत्वा मुच्यते सर्वकिल्बिषात्
वारुणं लोकमुत्सृज्य मम लोकं स गच्छति
अथाऽत्र मुञ्चते प्राणान्मम लोके स गच्छति 164.
न तस्य पुनरावृत्तिर्देवि सत्यं ब्रवीमि ते
अन्नकूटं परिक्रम्य किं पुनः परिशोचति
दत्त्वा पिण्डं पितृभ्यश्च राजसूयफलं भवेत्
तत्फलं प्राप्यते तत्र नात्र कार्या विचारणा
राजसूयाश्वमेधानां फलं प्राप्नोत्यसंशयम्
पृथिव्युवाच प्रभावगुणमाहात्म्यं तद्भवान्वक्तुमर्हति
श्रीवराह उवाच गोवर्द्धने सोपवासः कुर्यात्तत्र प्रदक्षिणाम्
स्नात्वा मानसगङ्गायां प्रभाते उदिते रवौ
पुण्डरीकं ततो गच्छेत्कुण्डे स्नात्वा विधानतः
सर्वपापविनिर्मुक्तः प्रयाति भवनं हरेः 164.
तत्र स्नानं तर्पणं च कृत्वा फलमवाप्नुयात्
तीर्थं संकर्षणं नाम्ना बलभद्रेण रक्षितम्
स्नानाद्गच्छति सा क्षिप्रं नाऽत्र कार्या विचारणा
तत्र कृष्णेन पूजार्थमिन्द्रस्य विहतो मखः
कृत्वा तुष्टिकरान्साक्षादिन्द्रेण सह संकथा
तासां गवां रक्षणाय धृतो गिरिवरस्तदा
देवा देव्यस्तथा गावो ऋषिभिश्च समन्विताः
तस्मिन्स्थाने तर्पणेन शतक्रतुफलं लभेत्
स्नात्वा पितॄन्समभ्यर्च्य ब्रह्मलोकमवाप्नुयात्
यत्र स्नानाद्दर्शनाच्च वाजपेयफलं लभेत् 164.
कुण्डे स्नात्वा पितॄँस्तर्प्य कृतकृत्यो दिवं व्रजेत्
अरिष्टेन समं यत्र महद्युद्धं प्रवर्त्तितम्
कोपेन पार्ष्णिघातेन मह्यां तीर्थं प्रवर्तितम्
स्नातस्तत्र तदा कृष्णो वृषं हत्वा महासुरम्
वृषो हतो मया चायमरिष्टः पापपूरुषः
स्वनाम्ना विदितं कुण्डं कृतं तीर्थमदूरतः