अयोध्याधिपती रामो हन्तुं राक्षसपुङ्गवम्
विभीषणश्च लङ्काया आधिपत्येऽभिषेचितः
श्रीराम उवाच देवो मे दीयतां रक्षः शक्रलोकाद्य आगतः
अहन्यहनि पूजामि देवं वाराहरूपिणम्
ततः समर्पयामास कपिलं दिव्यरूपिणम् १६३.
अयोध्यायां स्थापयित्वा पूजयामास तं तदा
लवणस्य वधार्थं हि शत्रुघ्नं प्रेषयत्तदा
चतुरङ्गबलोपेतो जगाम मथुरां प्रति
घातयित्वा तु शत्रुघ्नः प्रविश्य मथुरां पुरीम्
षड्विंशतिसहस्राणि वेदवेदाङ्गपारगान्
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजितः
लवणस्य वधं श्रुत्वा राघवो वाक्यमब्रवीत्
राघवस्य वचः श्रुत्वा शत्रुघ्नो वाक्यमब्रवीत्
दीयतां मम देवोऽयं यदि मे वरदो भवान्
नय शत्रुघ्न देवं त्वं दिव्यं वाराहरूपिणम् १६३.
धन्यास्ते माथुरा लोकाः पश्यन्ति कपिलं सदा
अनुलिप्तश्च शत्रुघ्न सर्वपापं व्यपोहति
सर्वं हरति वै पापं मोक्षं चैव प्रयच्छति
देवमादाय शत्रुघ्नो जगाम मथुरां पुरीम्
तत्र मध्ये तु संस्थाप्य पूजयामास राघवः
गयायां पिण्डदानेन यत्फलं ज्यष्ठेपुष्करे
विश्रान्तिसंज्ञके तद्वद्गोविन्दे च तथा हरौ
उदये मामकं तेजः सदा विश्रांतिसंज्ञके केशवे मामकं तेजो दिनभागे चतुर्थके
एषा विद्या पुरा देवि नित्यकालं सुगो पिता
इति श्रीवराहपुराणे मथुरामाहात्म्ये कपिलवराहमाहात्म्यं नाम त्रिषष्ट्यधिकशत तमोऽध्यायः
अथाऽन्नकूटपरिक्रमप्रभावः अस्ति गोवर्द्धनं नाम क्षेत्रं परमदुर्लभम्
ह्रदं तत्र महाभागे द्रुमगुल्मलतायुतम्
ऐन्द्रं पूर्वेण पार्श्वेन यमतीर्थं तु दक्षिणे
तेषां मध्ये स्थितो भद्रे क्रीडयिष्ये यदृच्छया
मोदते शक्रलोके तु सर्वद्वन्द्वविवर्जितः