पुण्येयं प्रतिमा दिव्या तैजसी दिव्यरूपिणी
मनसा निर्मिता तेन वाराही प्रतिमा शुभा
इन्द्रेणाराधितो देवि कपिलो मुनिसत्तमः
देवे लब्धे वरारोहे शक्रो हर्षसमन्वितः
इन्द्रेण तु तदा प्राप्तं दिव्यं ज्ञानमनुत्तमम्
इन्द्रलोकं गतः सोऽथ स्वर्गं जेतुं महाबलः १६३.
रावणेन जिता देवाः शक्रश्चैव महाबलः
प्रविश्य रावणस्तत्र गृहे रत्नविभूषिते
तेन संमोहितो देवि रावणो नाम राक्षसः
दामोदर हषीकेश हिरण्याक्षविदारण
कूर्मरूप नमस्तेऽस्तु नारायण नमोस्तु ते
निरीक्षितुं न शक्नोमि प्रष्टुं चैव गुणव्रत
मम त्वं भक्तिनम्रस्य प्रसादं कुरु सर्वदा
सौम्यरूपोऽभवद्देवो लोक नाथो जनार्दनः
देव त्वं स्वल्पकायोऽसि नाहमुद्धरणक्षमः १६३.
अहं त्वां नेतुमिच्छामि पुरीं लङ्कामनुत्तमाम्
श्रीवराह उवाच कपिलस्य वचः श्रुत्वा रावणो वाक्य मब्रवीत्
त्वद्दर्शनात्समुत्पन्ना भक्तिरव्यभिचारिणी
भक्तिमुद्वहतस्तस्य लघु वेषोऽभवत्तदा
आनयामास लङ्कायां स्थापयित्वा स्वके गृहे
अयोध्याधिपती रामो हन्तुं राक्षसपुङ्गवम्
विभीषणश्च लङ्काया आधिपत्येऽभिषेचितः
श्रीराम उवाच देवो मे दीयतां रक्षः शक्रलोकाद्य आगतः
अहन्यहनि पूजामि देवं वाराहरूपिणम्
ततः समर्पयामास कपिलं दिव्यरूपिणम् १६३.
अयोध्यायां स्थापयित्वा पूजयामास तं तदा
लवणस्य वधार्थं हि शत्रुघ्नं प्रेषयत्तदा
चतुरङ्गबलोपेतो जगाम मथुरां प्रति
घातयित्वा तु शत्रुघ्नः प्रविश्य मथुरां पुरीम्
षड्विंशतिसहस्राणि वेदवेदाङ्गपारगान्