भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुध्यता अत्वरता देयं तेनापि भक्तितः ।। १४.
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वाऽध्येयाश्च पितरस्त एव द्विजसत्तमाः ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्त्तयः ।। १४.
पितापितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ।। १४.
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वेऽथ देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ।। १४.
यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ।। १४.
तृप्तेष्वेतेषु विप्रेषु किरेदन्नं महीतले । दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ।। १४.
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले । सलिलेन ततः पिण्डान् समागृह्य समाहितः ।। १४.
पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्। दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजिताम् ।। १४.
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ । पितामहाय चैवान्यं तत्पित्रे च तथाऽपरम् ।। १४.
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणात् । पिण्डे मातामहे तद्वद् गन्धमाल्यादिसंयुतैः ।। १४.
पूजयित्वा द्विजाग्र्याणां दद्यादाचमनं बुधः । पैत्रेभ्यः प्रथमं भक्त्या तन्मनस्को द्विजेश्वर ।। १४.
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् । दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् । प्रीयन्तामिति ये विश्वे देवास्तेन इतीरयेत् ।। १४.
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः । पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान्महामते ।। १४.
मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद् विसर्ज्जने । आपादशौचनात् पूर्वं कुर्यादेव द्विजन्मसु ।। १४.
जानन्तं प्रथमं पित्र्यं तथा मातामहेषु च । विसर्जयेत् प्रीतिवचः संमान्याभ्यर्थितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारान्तमनुव्रजेत् ।। १४.
ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां ततः । भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मना ।। १४.
एवं श्राद्धं बुधः कुर्यात् पित्र्यं मातामहं तथा । श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ।। १४.
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । रजतस्य तथा दानं तथा संदर्शनादिकम् ।। १४.
वर्ज्यस्तु कुर्वता श्राद्धं क्रोधोऽध्वगममं त्वरा । भोक्तुरप्यत्र विप्रेन्द्र त्रयमेतन्न संशयः ।। १४.
विश्वेदेवाः सपितरस्तथा मातामहा द्विज । कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ।। १४.
सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः । श्राद्धं योगिनियुक्तं तु तस्मद् विप्रेन्द्र शस्यते ।। १४.
सहस्त्रस्यापि विप्राणां योगी चेत् पुरतः स्थितः । सर्वान् भोक्तॄंस्तारयति यजमानं तथा द्विज ।। १४.
मह्यं सनत्कुमारेण पूर्वकल्पे द्विजोत्तम । कथितं वायुना चापि देवानां शंभुना तथा ।। १४.
ऋषीणां शक्तिपुत्रेण तथा मैत्रेयसंज्ञिते । भविष्यति क्रमाद् यावन् मया ते कथितं द्विज ।। १४.
) इयं सर्वपुराणेषु सामान्या पैतृकी क्रिया । एतत् क्रमात् कर्मकाण्डं ज्ञात्वा मुच्येत बन्धनात् ।। १४.
एतदाश्रित्य निर्वाणं ऋषयः संशितव्रताः । प्राप्ता गौरमुखेदानीं त्वमप्येवं परो भव ।। १४.
इति ते कथितं भक्त्या पृच्छतो द्विजसत्तम । पितॄन् यष्ट्वा हरिं ध्यायेद् यस्तस्य किमतः परम् । न तस्मात् परतः पित्र्यं तन्त्रमस्तीति निश्चयः ।। १४.