तेषां तु ब्राह्मणः कश्चिद्ब्रह्महत्यासु चिह्नितः
प्रत्यक्षा दृश्यते सर्वैर्ब्रह्महत्यास्वरूपिणी
न गता पूर्वमेवासीद्वैकुण्ठे स्नानमाचरत्
किमेतत्किमिति प्राहुर्धारा प्रति वसुन्धरे
केन कारणदोषेण धारा त्यक्त्वा गता द्विजम्
वैकुण्ठे तु निमग्नोऽयं ब्रह्महत्या गता ततः १६३.
इत्युक्तस्तैर्देवदेवस्तत्रैवान्तरधीयत
वैकुण्ठतीर्थे यः स्नाति मुच्यते सर्वपातकैः
सूत उवाच नाम्ना गन्धर्वकुण्डं तु तीर्थानां तीर्थमुत्तमम्
तत्र स्नातो नरो देवि गन्धर्वैः सह मोदते
विंशतिर्योजनानां तु माथुरं मम मण्डलम्
कर्णिकायां स्थितो देवि केशवः क्लेशनाशनः
तत्र मध्ये मृता ये तु तेषां मुक्तिर्वसुन्धरे
दृष्ट्वा तं देवदेवेशं किं मनः परितप्यते
नासौ पतति संसारे यावदाभूतसंप्लवम्
यं दृष्ट्वा तु नरो याति मुक्तिं नास्त्यत्र संशयः १६३.
महाकायां सुरूपां च केशवाकारसन्निभाम्
कृते युगे तु राजासीन्मान्धाता नाम नामतः
तस्य तुष्टेन हि मया प्रतिमेयं समर्पिता
यदा तु मथुरां प्राप्य लवणोऽयं निपातितः
पुण्येयं प्रतिमा दिव्या तैजसी दिव्यरूपिणी
मनसा निर्मिता तेन वाराही प्रतिमा शुभा
इन्द्रेणाराधितो देवि कपिलो मुनिसत्तमः
देवे लब्धे वरारोहे शक्रो हर्षसमन्वितः
इन्द्रेण तु तदा प्राप्तं दिव्यं ज्ञानमनुत्तमम्
इन्द्रलोकं गतः सोऽथ स्वर्गं जेतुं महाबलः १६३.
रावणेन जिता देवाः शक्रश्चैव महाबलः
प्रविश्य रावणस्तत्र गृहे रत्नविभूषिते
तेन संमोहितो देवि रावणो नाम राक्षसः
दामोदर हषीकेश हिरण्याक्षविदारण