श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत्
तस्य तद्वचनं श्रुत्वा ब्राह्मणः संशितव्रतः
नान्यत्र तव संशुद्धिः कदाचित्पितृघातिनः
ततः कालेन महता सम्प्राप्तो मथुरां पुरीम्
कन्यापुरनिवासी तु कुशिकोऽयं नराधिपः
द्वेसहस्रे तु विप्राणां तस्य सत्रे च भुञ्जते
ततः कालेन महता चिन्ताभूच्छ्वशुरस्य च 162.
स्वां सुतां चोदयामास गच्छ तां मथुरां पुरीम्
दिव्यज्ञानेन च तदा नित्यं सा भर्तृसन्निधौ
दिवसस्यावसाने तु भोजनं गृह्य गच्छति
पात्रं निःक्षिप्य कुण्डे तु सत्रे वसति सर्वदा
ततः कालेन महता तैः पृष्टः स द्विजोत्तमः
कथयामास वृत्तान्तं तं सर्वं चात्मनो हि सः
इदमूचुस्ततो विप्राः शुद्रोऽसीति द्विजं प्रति
अस्माकं वदनाच्चैव पुनः सिद्धोऽसि वै द्विज
स्नानार्थं तु ततः स्थानाच्चक्रतीर्थं समागतः
सा तु हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् 162.
प्रियावचनमाकर्ण्य भर्ता वचनमब्रवीत्
भर्त्तुर्वचनमाकर्ण्य पत्नी वचनमब्रवीत्
चक्रतीर्थप्रभावेण मुक्तोऽसि द्विजसत्तम
तया सार्द्धं जगामाथ कल्पग्रामं द्विजोत्तमः
नित्यं च भुञ्जते यत्र पात्रं द्रव्यसमर्पितम्
कल्पग्रामाच्छतगुणं चक्रतीर्थं वसुन्धरे
कल्पग्रामेण किं तस्य वाराणस्यां च वा शुभे
अपि कीटः पतङ्गो वा जायते स चतुर्भुजः
इति श्रीवराहपुराणे मथुरामाहात्म्ये चक्रतीर्थप्रभावो नाम द्विषष्टयधिकशततमोऽध्यायः
अथ कपिलवराहमाहात्म्यम् पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
मिथिलायां पुरी रम्या जनकेन च पालिता
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चापि वसुन्धरे
तेषां च भक्तिरुत्पन्ना मथुरां प्रति सुन्दरि