गतसंज्ञं च पितरं दृष्ट्वा स रुरुदे भृशम्
संस्कारयोग्यता नास्ति इत्येवं पुनरब्रवीत्
आत्मनस्त्यागिनश्चैव आपस्तम्बोऽब्रवीदिदम्
प्रायश्चितं विधीयीत न दद्याच्चोदकक्रियाम्
तस्य पुत्रो महाभागे गतः श्वशुरमन्दिरम्
ब्रह्महत्या तु ते जाता गच्छ त्वं च यथेप्सितम्
न मया ब्राह्मणवधः कदाचिदपि कारितः
जामातुर्वचनं श्रुत्वा श्वशुरो वाक्यमब्रवीत् 162.
तेन दोषेण विप्रर्षे ब्रह्महत्याफलं तव
संवत्सरेण पतति पतितेन सहाचरन्
श्वशुरस्य वचः श्रुत्वा जामाता वाक्यमब्रवीत्
तस्य तद्वचनं श्रुत्वा ब्राह्मणः संशितव्रतः
नान्यत्र तव संशुद्धिः कदाचित्पितृघातिनः
ततः कालेन महता सम्प्राप्तो मथुरां पुरीम्
कन्यापुरनिवासी तु कुशिकोऽयं नराधिपः
द्वेसहस्रे तु विप्राणां तस्य सत्रे च भुञ्जते
ततः कालेन महता चिन्ताभूच्छ्वशुरस्य च 162.
स्वां सुतां चोदयामास गच्छ तां मथुरां पुरीम्
दिव्यज्ञानेन च तदा नित्यं सा भर्तृसन्निधौ
दिवसस्यावसाने तु भोजनं गृह्य गच्छति
पात्रं निःक्षिप्य कुण्डे तु सत्रे वसति सर्वदा
ततः कालेन महता तैः पृष्टः स द्विजोत्तमः
कथयामास वृत्तान्तं तं सर्वं चात्मनो हि सः
इदमूचुस्ततो विप्राः शुद्रोऽसीति द्विजं प्रति
अस्माकं वदनाच्चैव पुनः सिद्धोऽसि वै द्विज
स्नानार्थं तु ततः स्थानाच्चक्रतीर्थं समागतः
सा तु हृष्टेन मनसा भर्तारं वाक्यमब्रवीत् 162.
प्रियावचनमाकर्ण्य भर्ता वचनमब्रवीत्
भर्त्तुर्वचनमाकर्ण्य पत्नी वचनमब्रवीत्
चक्रतीर्थप्रभावेण मुक्तोऽसि द्विजसत्तम