स कन्यां पुत्रमादाय ब्राह्मणो वेदपारगः
तत्रासौ वासमकरोत्पुण्यसेवी जितेन्द्रियः
तत्र सिद्धेन संवासो ब्राह्मणस्याभवत्तदा
गच्छेत्स सर्वकालं तु शालिग्रामे वसुन्धरे
कल्पग्राम विभूतिं च नित्यकालमवर्णयत्
गमने बुद्धिरुत्पन्ना ततः सिद्धमयाचत
ब्राह्मणस्य वचः श्रुत्वा सिद्धो वचनमब्रवीत्
प्रार्थना दुःखलाभं तु शृणु वै ब्राह्मणोत्तम 162.
दक्षिणे तु करे गृह्य ब्राह्मणं वेदपारगम्
उत्पपात तदा सिद्धो गृहीत्वा ब्राह्मणोत्तमौ
तत्र तौ वसतो नित्यं कल्पग्रामे द्विजोत्तमौ
रुजा तु पीड्यमानः स दशमीं च दशां गतः
उवाच पुत्रं धर्मात्मा मरणे समुपस्थिते
तेन पुत्रेण नीतोऽसौ गंगातीरे महामुनिः
वेदाध्ययनशीलः स पितृभक्त्या नियन्त्रितः
कल्पग्रामे तदा सिद्धस्तस्य कन्या सुमध्यमा
कदाचिद्देवयोगेन कान्यकुब्जनिवासिनः
पृष्टोऽसौ ब्राह्मणो भद्रे क्व भवांस्त्वमिहागतः 162.
दिव्यज्ञानेन तं ज्ञात्वा पूजयामास तं द्विजः
श्वशुरस्य गृहे नित्यं भोजनं कुरुते द्विजः
काले भगवतस्तस्य अतिक्षीणः पिता तदा
स्वामिन्पितुर्मे मरणं भविष्यति वदस्व माम्
शूद्रान्नं भक्षितं तेन नित्यकालं द्विजोत्तम
पादयोर्विद्यते तच्च शूद्रान्नं च पितुस्तव
शूद्रान्नेन विहीनस्य तस्य मृत्युर्भविष्यति
तस्य पुत्रस्य वचनं श्रुत्वात्मानं विगर्हयत्
पितुः समीपात्स गतः श्वशुरस्य निवेशनम्
दुःखेन पीडितः क्षीणो मर्त्तुकामो द्विजोत्तमः 162.
सन्निधावुपलं दृष्ट्वा गृहीतं तेन तत्पदा
ततः प्राणान्परित्यज्य गतोऽसौ कालवर्त्तनम्