एषां मध्ये कृतं यैश्च एकं च शतमोजसा
आदौ मधुवनं नाम द्वितीयं तालमेव च
चतुर्थं काम्यकवनं वनानां वनमुत्तमम्
सप्तमं तु वनं भूमे खादिरं लोकविश्रुतम्
लोहार्गलवनं नाम नवमं पातकापहम्
एकादशं तु भाण्डीरं द्वादशं वृन्दका वनम् 161.
यथाक्रमेण ये यात्रां वनानां च जितेन्द्रियाः
इति श्रीवराहपुराणे मथुरामाहात्म्ये देववनप्रभावो नामैकषष्ट्यधिकशततमोऽध्यायः
अथ चक्रतीर्थप्रभावः पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
महागृहोदयं नाम जम्बूद्वीपस्य भूषणम्
स कन्यां पुत्रमादाय ब्राह्मणो वेदपारगः
तत्रासौ वासमकरोत्पुण्यसेवी जितेन्द्रियः
तत्र सिद्धेन संवासो ब्राह्मणस्याभवत्तदा
गच्छेत्स सर्वकालं तु शालिग्रामे वसुन्धरे
कल्पग्राम विभूतिं च नित्यकालमवर्णयत्
गमने बुद्धिरुत्पन्ना ततः सिद्धमयाचत
ब्राह्मणस्य वचः श्रुत्वा सिद्धो वचनमब्रवीत्
प्रार्थना दुःखलाभं तु शृणु वै ब्राह्मणोत्तम 162.
दक्षिणे तु करे गृह्य ब्राह्मणं वेदपारगम्
उत्पपात तदा सिद्धो गृहीत्वा ब्राह्मणोत्तमौ
तत्र तौ वसतो नित्यं कल्पग्रामे द्विजोत्तमौ
रुजा तु पीड्यमानः स दशमीं च दशां गतः
उवाच पुत्रं धर्मात्मा मरणे समुपस्थिते
तेन पुत्रेण नीतोऽसौ गंगातीरे महामुनिः
वेदाध्ययनशीलः स पितृभक्त्या नियन्त्रितः
कल्पग्रामे तदा सिद्धस्तस्य कन्या सुमध्यमा
कदाचिद्देवयोगेन कान्यकुब्जनिवासिनः
पृष्टोऽसौ ब्राह्मणो भद्रे क्व भवांस्त्वमिहागतः 162.
दिव्यज्ञानेन तं ज्ञात्वा पूजयामास तं द्विजः
श्वशुरस्य गृहे नित्यं भोजनं कुरुते द्विजः