विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घविधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ।। १४.
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । सुगन्धधूपदीपांश्च दत्त्वा तेभ्यो यथाविधि । पितॄणामपसकव्येन सर्वमेवोपकल्पयेत् ।। १४.
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् । मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्ध्यादिकं बुधः ।। १४.
काले तत्रातिथिं प्राप्तमन्नकामं द्विजाध्वगम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि पूजयेत् ।। १४.
योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ।। १४.
तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति द्विजेन्द्रापूजितोऽतिथिः ।। १४.
जुहुयाद् व्यञ्जनं क्षारैर्वर्ज्यमन्नं ततोऽनले । अनुज्ञातो द्बिजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभ ।। १४.
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ।। १४.
वैवस्वताय चैवान्या तृतीया दीयताहुतिः । हुतावशिष्टमल्पाल्पं विप्रपात्रेषु निर्वपेत् ।। १४.
ततोऽन्नं मृष्टमत्यर्थमभीष्टमभिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ।। १४.
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् । अक्रुध्यता अत्वरता देयं तेनापि भक्तितः ।। १४.
रक्षोघ्नमन्त्रपठनं भूमेरास्तरणं तिलैः । कृत्वाऽध्येयाश्च पितरस्त एव द्विजसत्तमाः ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्त्तयः ।। १४.
पितापितामहश्चैव तथैव प्रपितामहः । मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु पिण्डेषु मया दत्तेषु भूतले ।। १४.
पिता पितामहश्चैव तथैव प्रपितामहः । तृप्तिं प्रयान्तु मे भक्त्या यन्मयैतदुदाहृतम् ।। १४.
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः । विश्वेऽथ देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ।। १४.
यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताऽव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ।। १४.
तृप्तेष्वेतेषु विप्रेषु किरेदन्नं महीतले । दद्यादाचमनार्थाय तेभ्यो वारि सकृत्सकृत् ।। १४.
सुतृप्तैस्तैरनुज्ञातः सर्वेणान्नेन भूतले । सलिलेन ततः पिण्डान् समागृह्य समाहितः ।। १४.
पितृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् । मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत्। दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजिताम् ।। १४.
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ । पितामहाय चैवान्यं तत्पित्रे च तथाऽपरम् ।। १४.
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणात् । पिण्डे मातामहे तद्वद् गन्धमाल्यादिसंयुतैः ।। १४.
पूजयित्वा द्विजाग्र्याणां दद्यादाचमनं बुधः । पैत्रेभ्यः प्रथमं भक्त्या तन्मनस्को द्विजेश्वर ।। १४.
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् । दत्त्वा च दक्षिणां तेभ्यो वाचयेद् वैश्वदेविकान् । प्रीयन्तामिति ये विश्वे देवास्तेन इतीरयेत् ।। १४.
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथाशिषः । पश्चाद् विसर्जयेद् देवान् पूर्वं पैत्रान्महामते ।। १४.
मातामहानामप्येवं सह देवैः क्रमः स्मृतः । भोजने च स्वशक्त्या च दाने तद्वद् विसर्ज्जने । आपादशौचनात् पूर्वं कुर्यादेव द्विजन्मसु ।। १४.
जानन्तं प्रथमं पित्र्यं तथा मातामहेषु च । विसर्जयेत् प्रीतिवचः संमान्याभ्यर्थितांस्ततः । निवर्त्तेताभ्यनुज्ञात आद्वारान्तमनुव्रजेत् ।। १४.
ततस्तु वैश्वदेवाख्यां कुर्यान्नित्यक्रियां ततः । भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मना ।। १४.
एवं श्राद्धं बुधः कुर्यात् पित्र्यं मातामहं तथा । श्राद्धैराप्यायिता दद्युः सर्वान् कामान् पितामहाः ।। १४.