गोपानां तीर्थके चैव तथा वै मुक्तिकेश्वरे
तीर्थान्येतानि पुण्यानि यथा विश्रान्तिसंज्ञकम्
देवान्पितॄन् समभ्यर्च्य ततो देवं प्रसादयेत्
मथुराक्रमणीयं मे सफलं स्यात्तवाज्ञया
विश्रान्तिसंज्ञके स्नानं कृत्वा च पितृतर्पणम्
सुमङ्गलां ततो गच्छेद्यात्रासिद्धिं प्रसादयेत्
यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति
विश्रान्तस्तु परिक्रम्य त्रातस्तत्र महातपाः
स्वनाम्ना चिह्नितं स्थाप्य तदा यात्राफलं लभेत्
दृष्ट्वा गच्छेत्ततो देवीं या कृष्णेन विनिर्मिता 160.
सुखवासं च वरदं कृष्णस्याक्लिष्टकर्मणः
स्वानुकूलः स्वरो यत्र प्रवेशे दक्षिणः स्वनः
भयार्तेन च कृष्णेन ध्याता देवी च चण्डिका
दृष्ट्वा सर्वार्त्तिहरणं यस्या देव्याः सुखी नरः
कृष्णस्य कंसघातार्थं संभूता सा तथोत्तरे
वज्राननं ततो ध्यात्वा कृष्णो मल्लजिघांसया
वाञ्छितार्थफलं चक्रे कृष्णेनास्य मनोरथान्
उपयाचितं तु माङ्गल्यं सर्वपापहरं शुभम्
सूर्यं तं वरदं देवं माथुराणां कुलेश्वरम्
एवं प्रदक्षिणं कृत्वा नवम्यां शुक्लकौमुदे 160.
क्रमतः पदविन्यासाद्यावन्तः सर्वतो दिशः
ब्रह्मघ्नश्च सुरापश्च चौरा भग्नव्रताश्च ये
मथुराक्रमणं कृत्वा विपाप्मानो भवन्ति ते
तस्य सन्दर्शनादन्ये पूताः स्युर्विगतामयाः
सर्वपापविनिर्मुक्तास्ते यान्ति परमं पदम्
इति श्रीवराहपुराणे मथुरा परिक्रमप्रादुर्भावो नाम षष्ट्यधिकशततमोऽध्यायः
अथ देववनप्रभावः ये धर्मविमुखा मूढाः सर्वज्ञानविवर्जिताः
अभुक्त्वा नारकं दुःखं सुकृतैः पुण्यदैर्नृणाम्
श्रीवराह उवाच नरकार्त्तिहरा देवी मथुरा पापघातिनी
मथुरावासिनो ये च तीर्थानां चोपसेवकाः