अनुज्ञाय ततः स्थानं द्रष्टुं गर्त्तेश्वरं शिवम्
महाविद्येश्वरी देवी आरक्षं पापकं हरेत्
प्रभा मल्ली च तत्रैव दृष्ट्वा कामानवाप्नुयात्
नित्यं सन्निहिता तत्र सिद्धिदा पापनाशिनी
सङ्केतकं कृतं तत्र मन्त्रनिश्चयकारकम्
सिद्धिप्रदा भोगदा च तेन सिद्धेश्वरी स्मृता
तत्र कुण्डं स्वच्छजलं महापातकनाशनम्
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते
विघ्नराजं ततो गच्छेद्गणेशं विघ्ननायकम्
गंगा साध्वी च तत्रैव महापातकनाशिनी 160.
महादेवमुखाकारं नाम्ना रुद्रमहालयम्
तस्मादुत्तरकोटिं च दृष्ट्वा देवं गणेश्वरम्
नानापहासरूपेण जिता गोप्यो धनानि च
गोपालकृष्णगमनं महापातकनाशनम्
कृतं तत्र यथारूपं यद्रूपं च यथा तथा
ततो गच्छेन्महातीर्थं विमलं यमुनाम्भसि
गार्ग्यतीर्थे महापुण्ये नरस्तत्र तथा क्रमेत्
स्नात्वा सोमेश्वरं देवं दृष्ट्वा यात्राफलं लभेत्
सन्तर्प्य विधिवद्दत्त्वा विष्णुसायुज्यमाप्नुयात्
धारालोपनके तद्वद्वैकुण्ठे खण्डवेलके 160.
गोपानां तीर्थके चैव तथा वै मुक्तिकेश्वरे
तीर्थान्येतानि पुण्यानि यथा विश्रान्तिसंज्ञकम्
देवान्पितॄन् समभ्यर्च्य ततो देवं प्रसादयेत्
मथुराक्रमणीयं मे सफलं स्यात्तवाज्ञया
विश्रान्तिसंज्ञके स्नानं कृत्वा च पितृतर्पणम्
सुमङ्गलां ततो गच्छेद्यात्रासिद्धिं प्रसादयेत्
यात्रेयं त्वत्प्रसादेन सफला मे भवत्विति
विश्रान्तस्तु परिक्रम्य त्रातस्तत्र महातपाः
स्वनाम्ना चिह्नितं स्थाप्य तदा यात्राफलं लभेत्
दृष्ट्वा गच्छेत्ततो देवीं या कृष्णेन विनिर्मिता 160.