विज्ञाप्य सिद्धिकर्त्तारं यात्रासिद्धिप्रदायकम्
यथा रामस्य यात्रायां सिद्धिस्ते सुप्रतिष्ठिता
इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम्
तथैव पद्मनाभं तु दीर्घविष्णुं भयापहम्
दृष्ट्वा वसुमतीं देवीं तथैव ह्यपराजिताम्
कंसवासनिकां तद्वदौग्रसेनां च चर्च्चिकाम्
जयदां देवतानां च मातरो देवपूजिताः
मौनव्रतधरो गच्छेद्यावद्दक्षिणकोटिके
नत्वा गच्छेदिक्षुवासां देवि कृष्णसुपूजिताम् यानि तीर्थानि तान्येव स्थापितानि महर्षिभिः
ख्यातिं गतानि सर्वाणि सर्वपापहराणि च अर्कस्थलं वीरस्थलं कुशस्थलमनन्तरम् ।। 160.
पुण्यस्थल महास्थल महापापविनाशनम्
येषां तु दर्शनादेव ब्रह्मणा सह मोदते
हयमुक्तिं ततो गच्छेत्सिंदूरं ससहायकम्
अश्वारूढेन तेनैव यत्रेयं समनुष्ठिता
राजपुत्रः स्थितस्तत्र यानयात्रा न मुक्तिदा
तस्मिंस्तीर्थे तु तं दृष्ट्वा स्पृष्ट्वा पापैः प्रमुच्यते
मल्लिकादर्शनं कृत्वा कृष्णस्य जयदं शुभम्
चर्चिका योगिनी तत्र योगिनीपरिवारिता
अस्पृश्या चास्पृशा चैव मातरौ लोकपूजितौ
वर्षखातं ततो गत्वा कुण्डं पापहरं परम् 160.
क्षेत्रपालं ततो गत्वा शिवं भूतेश्वरं हरम्
कृष्णक्रीडासेतुबन्धं महापातकनाशनम्
गोपकैः सहितस्तत्र क्षणमेकं दिनेदिने
बलिह्रदं च तत्रैव जलक्रीडाकृतं शुभम्
ततः परं च कृष्णेन कुक्कुटैः क्रीडनं कृतम्
स्तम्भोच्चयं सुशिखरं सौरभैः सुसुगन्धिभिः
तस्य प्रदक्षिणं कृत्वा परिपूज्य प्रयत्नतः
वसुदेवेन देवक्या गर्भस्य रक्षणाय च
ततो नारायणस्थानं प्रविशेन्मुक्तिहेतवे
दृष्ट्वा ततः सुविज्ञाप्य गणं विधिविनायकम् 160.