तस्मात्सर्वप्रयत्नेन सर्वकामानभीप्सुभिः
धरण्युवाच प्रदक्षिणाफलं सम्यगनुक्रमविधिं वद
श्रीवराह उवाच इदमेव पुरा प्रोक्तं यथा पृष्टा त्वया ह्यहम्
श्रुत्वा सर्वपुराणोक्तं तीर्थानुक्रमणं परम्
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्
यत्फलं लभ्यते विप्रास्तस्माच्छतगुणोत्तरम् 159.
इत्युक्त्वा ऋषयो जग्मुरभिवाद्य स्वयम्भुवम्
ध्रुवेण सहिताश्चासन्कामयानास्तु तद्दिनम्
मथुरोपक्रमं कृत्वा सर्वपापैः प्रमुच्यते
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रदक्षिणादिकं नामैकोनषष्ट्यधिकशततमोऽध्यायः
अथ मथुरापरिक्रमप्रादुर्भावः अष्टम्यां मथुरां प्राप्य कार्त्तिकस्यासिते नरः
विश्रांतिदर्शनं कृत्वा दीर्घविष्णुं च केशवम्
उपवासरतः सम्यगल्पमेध्याशनोऽथवा
ब्रह्मचर्येण तां रात्रिं कृत्वा सङ्कल्प्य मानसे
तिलाक्षतकुशान् गृह्य पितृदेवार्थमुद्यतः
यथानुक्रमणं तैश्च ध्रुवाद्यैर्ऋषिभिः कृतम्
प्रदक्षिणा वर्त्तमाना भक्तिश्रद्धासमन्वितः
एवं जागरणं कृत्वा नवम्यां नियतः शुचिः
तथा प्रारभयेद्यात्रां यावन्नोदयते रविः
प्रक्षाल्य पादावाचम्य हनुमन्तं प्रसादयेत् 160.
विज्ञाप्य सिद्धिकर्त्तारं यात्रासिद्धिप्रदायकम्
यथा रामस्य यात्रायां सिद्धिस्ते सुप्रतिष्ठिता
इति विज्ञाप्य विधिवद्धनूमन्तं गणेश्वरम्
तथैव पद्मनाभं तु दीर्घविष्णुं भयापहम्
दृष्ट्वा वसुमतीं देवीं तथैव ह्यपराजिताम्
कंसवासनिकां तद्वदौग्रसेनां च चर्च्चिकाम्
जयदां देवतानां च मातरो देवपूजिताः
मौनव्रतधरो गच्छेद्यावद्दक्षिणकोटिके
नत्वा गच्छेदिक्षुवासां देवि कृष्णसुपूजिताम् यानि तीर्थानि तान्येव स्थापितानि महर्षिभिः
ख्यातिं गतानि सर्वाणि सर्वपापहराणि च अर्कस्थलं वीरस्थलं कुशस्थलमनन्तरम् ।। 160.