प्रदक्षिणां प्रकुर्वाणमन्यो यः स्पृशते नरः
मथुरायां नरो गत्वा दृष्ट्वा देवं स्वयम्भुवम् 158.
देवस्याग्रे तु वसुधे कूपं तु विमलोदकम्
चतुःसामुद्रिकं नाम त्रिषु लोकेषु विश्रुतम्
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रभावो नामाष्टपंचाशदधिकशततमोऽध्यायः
अथ मथुराप्रदक्षिणा विध्यादिकम् श्रुतं सुबहुशो देव तीर्थानां गुणविस्तरम्
न दानैर्न तपोभिश्च न यज्ञैस्तादृशं फलम्
भुवश्च चतुरन्तायास्तीर्थप्रक्रमणं हरे
अस्ति कश्चिदुपायोऽत्र येन सम्यगवाप्यते
श्रीवराह उवाच परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम्
भूम्याः परिक्रमे सम्यक्योजनानां प्रमाणकम्
तीर्थान्येतानि देवाश्च तारकाश्च नभस्थले
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च
एतैरनेकधा देवैः ससागरवना मही
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना 159.
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः
सप्तद्वीपे च तीर्थानां भ्रमणाद्यत्फलं भवेत्
मथुरां समनुप्राप्य यस्तु कुर्यात्प्रदक्षिणम्
तस्मात्सर्वप्रयत्नेन सर्वकामानभीप्सुभिः
धरण्युवाच प्रदक्षिणाफलं सम्यगनुक्रमविधिं वद
श्रीवराह उवाच इदमेव पुरा प्रोक्तं यथा पृष्टा त्वया ह्यहम्
श्रुत्वा सर्वपुराणोक्तं तीर्थानुक्रमणं परम्
सर्वदेवेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्
यत्फलं लभ्यते विप्रास्तस्माच्छतगुणोत्तरम् 159.
इत्युक्त्वा ऋषयो जग्मुरभिवाद्य स्वयम्भुवम्
ध्रुवेण सहिताश्चासन्कामयानास्तु तद्दिनम्
मथुरोपक्रमं कृत्वा सर्वपापैः प्रमुच्यते
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रदक्षिणादिकं नामैकोनषष्ट्यधिकशततमोऽध्यायः