घृतपूर्णेन पात्रेण समग्रेण च वाससा
पंचयोजनविस्तारमायामं पंच विस्तरम् 158.
सर्वकामसमृद्धं तदप्सरोगणसेवितम्
समारोहति वै नित्यं प्रभामण्डलमण्डितम्
तं स्पृहन्ति सदा देवि पुण्यमस्ति कृतं भुवि
सतां पुण्यगृहे देवि जायते मानवो हि सः क्षेत्रं हि रक्षते देव कस्त्विदं पापनाशनम्
पशुभूतपिशाचैश्च रक्षोभूतविनायकैः
श्रीवराह उवाच न विकुर्वन्ति ते दृष्ट्वा मत्पराणां हि देहिनाम्
रक्षार्थं हि मया दत्ता दिक्पालास्तु वरानने
पूर्वां रक्षति इन्द्रस्तु यमो रक्षति दक्षिणाम्
उत्तरां वै कुबेरस्तु महाबलपराक्रमः
मथुरायां गृहं यस्तु प्रासादं कुरुते नरः 158.
मथुराया महाभागे कुण्डे च विमलोदके
तत्र मुञ्चेत यः प्राणान् स्नानं कृत्वा वसुन्धरे
तत्रैव तु सदाश्चर्यं कथ्यमानं मया शृणु
हेमन्ते तु भवेच्चोष्णं शीतलं ग्रीष्मके भवेत्
न वर्द्धते च वर्षासु ग्रीष्मे चापि न हीयते
पदे पदे तीर्थफलं मथुरायां वसुंधरे
वर्षासु स्थूलतीर्थेषु स्नातव्यं तु प्रयत्नतः
प्रवाहेषु च दिव्येषु नदीनां सङ्मेषु च
अस्ति क्षेत्रं परं दिव्यं मुचुकुन्दं तु नामतः
तत्र कुण्डे नरः स्नात्वा प्राप्नोत्यभिमतं जलम् 158.
27 इहजन्मकृतं पापमन्यजन्मकृतं च यत्
किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने
कृत्वा प्रदक्षिणं देवि विश्रामं कुरुते तु यः
सुप्तोत्थितं हरिं दृष्ट्वा मथुरायां वसुन्धरे
कुमुदस्य तु मासस्य नवम्यां तु वसुन्धरे
ब्रह्मघ्नश्च सुरापश्च गोघ्नो भग्नव्रतस्तथा
अष्टम्यां प्राप्य मथुरां दन्तधावनपूर्वकम्
धौतवस्त्रस्तु सुस्नातो मौनव्रतपरायणः