पितरस्तारितास्तेन कुलानां सप्तसप्ततिः 157.
पितरस्तस्य तृप्यन्ति कोटिवर्षशतान्यलम्
मध्ये तु मरणं यस्य शक्रस्यैति सलोकताम्
तद्वद्ब्रह्माणमाशास्य गोपीशस्यैव मध्यतः
नरस्तारयते पुंसां दश पूर्वान्दशापरान्
तत्राथ मुञ्चते प्राणान्मम लोकं स गच्छति
मथुरादक्षिणे पार्श्वे क्षेत्रं फाल्गुनकं तथा
तत्र फाल्गुनके चैव तीर्थे परमदुर्ल्लभे
तत्राभिषेकं यः कुर्यात्स देवैः सह मोदते
अस्ति तालवनं नाम धेनुकासुररक्षितम्
तत्र कुण्डं स्वच्छजलं नीलोत्पलविभूषितम् 157.
अस्ति संपीठकं नाम अस्मिन् क्षेत्रे परं मम
तत्र स्नानं च ये कुर्युरेकरात्रोषिता नराः
अथात्र मुञ्चते प्राणान्मम लोकं स गच्छति
तत्र पुण्येन हि मया रविराराधितः शुभः
तत्रैवं तु ततो दृष्टः पद्महस्तो दिवाकरः
सप्तम्यां कृष्णपक्षस्य रविस्तिष्ठति सर्वदा
न तस्य दुर्ल्लभं लोके सर्वदाता दिवाकरः
नरो वाप्यथवा नारी प्राप्नोत्यविकलं फलम्
आदित्यं तु पुरः स्थाप्य प्राप्तो भीष्मो महाबलः
तत्र स्नानेन दानेन वाञ्छितं फलमाप्नुयात् ।। 157.
इति श्रीवराहपुराणे मथुरामाहात्म्ये मलयार्जुनतीर्थादिस्नानादि प्रशंसा नाम सप्तपञ्चाशदधिकशततमोध्यायः
अथ मथुरातीर्थप्रादुर्भावः विंशतिर्योजनानां तु माथुरं मम मण्डलम्
वर्षाकाले तु स्थातव्यं यच्च स्थानं तु हर्षदम्
सप्तद्वीपेषु तीर्थानि पुण्यान्यायतनानि च
सुप्तोत्थितं तु दृष्ट्वा मां मथुरायां वसुन्धरे
सुप्तोत्थितं तु वसुधे दृष्ट्वा मे मुखपङ्कजम्
मथुरावासिनो लोकाः सर्वे ते मुक्तिभाजनाः
स्नात्वा पुनस्तु कालिन्द्यां मम लोके महीयते
प्रदक्षिणीकृतो येन मथुरायां तु केशवः