आदित्यानां वचः श्रुत्वा क्रीडां कृत्वा वसुन्धरे
अथात्र मुंचते प्राणान्मम लोकं स गच्छति
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुराप्रादुर्भावो नाम षट्पंचाशदधिकशततमोऽध्यायः
अथ मलयार्जुनतीर्थादिस्नानादिप्रशंसा यमुनापारमुल्लङ्घ्य तत्रैव च महामुने
पर्यस्तं तत्र शकटं भिन्नभाण्डकुटीघटम्
द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासे वसुन्धरे
ज्येष्ठस्य शुक्लद्वादश्यां स्नात्वा सुनियतेन्द्रियः
यमुनासलिले स्नातः शुचिर्भूत्वा जितेन्द्रियः
अपि चास्मत्कुले जातः कालिन्दीसलिले प्लुतः
इति गायन्ति पितरः परलोकगताः सदा
धन्योऽसौ पिण्डनिर्वापं यमुनायां करिष्यति
तत्र स्नातो नरो देवि रुद्रलोके महीयते
तत्र स्नातो नरो याति मम लोकं न संशयः 157.
दृश्यन्तेऽहरहस्तत्र आदित्याः शुभकारिणः
सर्वपापविनिर्मुक्तः सूर्यलोकं व्रजेन्नरः
अर्कस्थलसमीपे तु कूपं तु विमलोदकम्
तत्र स्नानेन वसुधे स्वच्छन्दगमनालयः
तत्र वीरस्थलं नाम क्षेत्रं गुह्यं परं मम
यस्तत्र कुरुते स्नानमेकरात्रोषितो नरः
अथाऽत्र मुञ्चते प्राणान्ममलोकं स गच्छति
तत्र स्नातो नरो देवि ब्रह्मलोके महीयते
ख्याता एते पञ्च देशा महापापविनाशनाः 157.
तत्र गोपीश्वरो नाम महापातकनाशनः
गोप्यो रूपाणि चक्रे च तत्र क्रीडनके हरिः
शकटं च तदा भिन्नं घटभाण्डकुटीरकम्
परिष्वज्य हि धर्मेण व्याजेन च सुगोपितम्
गोपवेषधरं देवमभिषेकं चकार ह
गोपीमण्डलपातेन स्नापितो हेमकुण्डलः
तत्र गोपीश्वरं देवं मातलिः स्थाप्य पूजितम्
सप्तसामुद्रिकं नाम कूपं तु विमलोदकम्