असमर्थोऽन्नदानस्य वन्यशाकं स्वशक्तितः । प्रदास्यतिद्विजाग्र्येभ्यः स्वल्पां यो वापि दक्षिणाम् ।। १३.
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् । प्रणम्य द्विजमुख्याय कस्मैचिद् द्विज दास्यति ।। १३.
तिलैः सप्ताष्टभिर्वापि समवेतां जलाञ्जलिम् । भक्तिनम्रः समुद्दिश्याप्यस्माकं संप्रदास्यति ।। १३.
यतः कुतश्चित् संप्राप्य गोभ्यो वापि गवाह्निकम् । अभावे प्रीणयत्यस्मान् भक्त्या युक्तः प्रदास्यति ।। १३.
सर्वाभावे वनं गत्वा कक्षामूलप्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिष्यति ।। १३.
न मेऽस्ति वित्तं न धनं न चान्य- च्छ्राद्धस्य योग्यं स्वपितॄन् नतोऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ ततौ वर्त्मनि मारुतस्य ।। १३.
इत्येतत् पितृभिर्गीतं भावाभावप्रयोजनम् । कृतं तेन भवेच्छ्राद्धं य एवं कुरुते द्विज ।। १३.
मार्कण्डेय उवाच । एतन्मे कथितं पूर्वं ब्रह्मपुत्रेण धीमता । सनकानुजेन विप्रर्षे ब्राह्मणान् श्रृणु सांप्रतम् ।। १४.
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् । वेदवित् श्रोत्रियो योगी तथा वै ज्योष्ठसामगः ।। १४.
ऋत्विजं भागिनेयं च दौहित्रं श्वसुरं तथा । जामातरं मातुलं च तपोनिष्ठं च ब्राह्मणम् ।। १४.
पञ्चाग्न्यभिरतं चैव शिष्यं संबन्धिनं तथा । मातापितृरतं चैव एताञ्छ्राद्धे नियोजयेत् ।। १४.
मित्रध्रुक् कुनखी चैव श्यावदन्तस्तथा द्विजः । कन्यादूषयिता वह्निवेदोज्झः सोमविक्रयी ।। १४.
अभिशप्तस्तथा स्तेनः पिशुनो ग्रामयाजकः । भृतकाध्यापकश्चैव भृतकाध्यापितश्च यः ।। १४.
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः । वृषलीसूतिपोष्यश्च वृषलीपतिरेव च । तथा देवलकश्चापि श्राद्धे नार्हन्ति केतनम् ।। १४.
प्रथमेऽह्नि बुधः कुर्याद् विप्राग्र्याणां निमन्त्रणम् । आनिमन्त्र्य द्विजान् गेहमागतान् भोजयेद् यतीन् ।। १४.
पादशौचादिना गेहमागतान् भोजयेद् द्विजान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।। १४.
पितॄणामयुजो युग्मान् देवानामपि योजयेत् । देवानामेकमेकं वा पितॄणां च नियोजयेत् ।। १४.
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् । कुर्वीत भक्तिसंपन्नसक्तन्त्रं वा वैश्वदेविकम् ।। १४.
प्राङ्मुखं भोजभेद् विप्रं देवानामुभयात्मकम् । पितृपैतामहानां च भोजयेच्चाप्युदङ्मुखान् ।। १४.
पृथक् तयोः केचिदाहुः श्राद्धस्य करणं द्विज । एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ।। १४.
विष्टरार्थं कुशान् दत्त्वा संपूज्यार्घविधानतः । कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ।। १४.
यवाम्बुना च देवानां दद्यादर्घ्यं विधानवित् । सुगन्धधूपदीपांश्च दत्त्वा तेभ्यो यथाविधि । पितॄणामपसकव्येन सर्वमेवोपकल्पयेत् ।। १४.
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भान् द्विधाकृतान् । मन्त्रपूर्वं पितॄणां तु कुर्यादावाहनं बुधः । तिलाम्बुना चापसव्यं दद्यादर्ध्यादिकं बुधः ।। १४.
काले तत्रातिथिं प्राप्तमन्नकामं द्विजाध्वगम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि पूजयेत् ।। १४.
योगिनो विविधै रूपैर्नराणामुपकारिणः । भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ।। १४.
तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथिं बुधः । श्राद्धक्रियाफलं हन्ति द्विजेन्द्रापूजितोऽतिथिः ।। १४.
जुहुयाद् व्यञ्जनं क्षारैर्वर्ज्यमन्नं ततोऽनले । अनुज्ञातो द्बिजैस्तैस्तु त्रिः कृत्वा पुरुषर्षभ ।। १४.
अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः । सोमाय वै पितृमते दातव्या तदनन्तरम् ।। १४.
वैवस्वताय चैवान्या तृतीया दीयताहुतिः । हुतावशिष्टमल्पाल्पं विप्रपात्रेषु निर्वपेत् ।। १४.
ततोऽन्नं मृष्टमत्यर्थमभीष्टमभिसंस्कृतम् । दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ।। १४.