अग्निदत्तस्तु वै नाम छान्दसो ब्राह्मणोत्तमः
मृतस्सुगृहकामेन राक्षसत्वमुपागतः
एकविश्रामपुण्यं मे देहि त्वं वणिगुत्तम
साधु राक्षस दत्तं ते एकनृत्यं मया तव
श्रीवराह उवाच अग्रतस्तु स्थितं देवं दृष्ट्वाऽसौ धरणीं गतः
उवाच मधुरं वाक्यं देवदेवो जनार्दनः
विमानवरमारुह्य मम लोकं व्रजस्व च
सुधनः सशरीरोऽपि सकुटुंबो दिवं ययौ 155.
एष तीर्थप्रभावो वै कथितस्ते वसुन्धरे
तस्य तीर्थप्रभावेण सुधनो मुक्तिमाप्तवान्
तस्मिन्स्नातस्य वसुधे राजसूयफलं भवेत्
वृषोत्सर्गं नरः कुर्वंस्तारयेत्सकुलोद्भवान्
पितरस्तारितास्तेन सदैव प्रपितामहाः
इति श्रीवराहपुरणे मथुरामाहात्म्ये अकूर तीर्थप्रभावो नाम पंचपंचाशदधिकशततमोऽध्यायः
अथ मथुराप्रादुर्भावः वत्सक्रीडनकं नाम तीर्थं वक्ष्ये परं मम
स्नानमात्रेण तत्रैव वायुलोकं व्रजेन्नरः
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
सालैस्तालैश्च तरुभिस्तमालैरर्ज्जुनैस्तथा
तस्मिन्भाण्डीरके स्नातो नियतो नियताशनः
तत्राऽथ मुञ्चते प्राणान्मम लोकं च गच्छति
तत्राहं क्रीडयिष्यामि गोभिर् गोपालकैः सह
तत्र कुण्डे महाभागे बहुगुल्मलतावृते
गन्धर्वैरप्सरोभिश्च क्रीडमानः स मोदते
पुनरन्यत्प्रवक्ष्यामि महापातकनाशनम् 156.
तीर्थं शतगुणं पुण्यं यत्र केशी निपातितः
तस्माच्छतगुणं पुण्यं नात्र कार्या विचारणा
तस्मिन्पिण्डप्रदानेन गयातुल्य फलं भवेत्
सूर्यतीर्थेषु वसुधे द्वादशादित्यसंज्ञिके
कालियो दमितस्तत्र आदित्याः स्थापिता मया
आदित्या ऊचुः अस्मिंस्तीर्थवरे स्नानमस्माकं संप्रदीयताम्