मा कुरु व्रतभङ्गं मे रक्षो नारायणस्य हि
सुधनस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः
मिथ्या प्रभाषसे साधो त्वं पुनः कथमेष्यसि
राक्षसस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत्
सिद्धिं लभन्ते सत्येन ऋषयो वेदपारगाः
प्राप्तश्च मानुषो भावो विहितेनान्तरात्मना
कृत्वा जागरणं तत्र नृत्यं कृत्वा यथासुखम्
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः
स्वर्गमिच्छन्ति सत्येन मोक्षः सत्येन लभ्यते 155.
यमः सत्येन हरति सत्यादिन्द्रो विराजते
परदारांस्तु यो गच्छेत्काममोहप्रपीडितः
तस्य पापेन लिप्येऽहं यदि नायामि ते पुरः
दत्त्वा च भूमिदानं यो ह्यपकारं करोति च
पूर्वं भुक्त्वा स्त्रियं यस्तु सुखमाप्य विहृत्य च
पङ्क्तिभेदं तु यः कुर्यादेकपंक्त्याशिनां धुवम्
अमावस्यां महारक्षः श्राद्धं कृत्वा स्त्रियं व्रजेत्
अष्टाष्टमी त्वमावास्या उभे पक्षे चतुर्दशी
गुरोर्भ्रातुः सुतस्यापि सख्युर्वै मातुलस्य च
अभिगच्छति मन्दात्मा तत्पापं मे भवेत्तदा 155.
तस्य पापेन लिप्येऽहं यद्यहं नागमे पुनः
तेन पापेन लिप्येऽहं यद्यहं नागमे पुनः
तेषां पापेन लिप्येऽहं यद्यहं नागमे पुनः
या गतिस्तां प्रपद्येऽहं यद्यहं नागमे पुनः सुधनस्य वचः श्रुत्वा सन्तुष्टो ब्रह्मराक्षसः
उवाच मधुरं वाक्यं गच्छ शीघ्रं नमोऽस्तु ते
पुनर्नृत्यति चैवाग्रे मम भक्तो व्यवस्थितः
पुनः पुनर्वै उच्चार्य नमो नारायणाय च
दृष्ट्वा मां दिव्यरूपं तु गतोऽसौ मथुरां पुरीम्
स च पृष्टो मया देवि क्व भवान्प्रस्थितो द्रुतम्
अहं गच्छामि त्वरितो ब्रह्मराक्षससन्निधौ 155.
जीवतो धर्ममाहात्म्यं मृते धर्मः कुतो यशः ५१- आगतोऽहं महाभाग नर्त्तयित्वा यथासुखम्