तत्र .नित्यं स्थितो देवि लोकानां हितकाम्यया
अयने विषुवे चैव तथा विष्णुपदीषु च
अक्रूरेति च विख्यातं मम क्षेत्रं वसुन्धरे
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
तत्स्नानात्फलमाप्नोति प्रयागस्नानजं फलम्
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि
बन्धुपुत्रकलत्रैश्च गृहे प्रीतिरनुत्तमा
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा
मानकूटं तुलाकूटं न करोति स कर्हिचित् 155.
नित्यं कालं च कुरुते हरिपूजनमुत्तमम्
उपहारेण दिव्येन धूपेन च सुगन्धिना
उपवासं तु कुरुते रात्रौ जागरणं तथा
तत्रागत्य ममाग्रेऽसौ नृत्यते शुभदर्शनः
चलमानो गृहीतस्तु चरणे ब्रह्मरक्षसा
पादे गृहीत्वा वसुधे इदं वचनमब्रवीत्
राक्षसोऽहं वणिक्श्रेष्ठ वसामि वनमाश्रितः
सुधन उवाच भक्षयिष्यसि मे गात्रं मिष्टान्नपरिपोषितम्
जागरं देवदेवस्य कर्तुमिच्छामि राक्षस
तत्र जागरणं कृत्वा प्रभाते तव सन्निधौ 155.
ततः खादिष्यसे गात्रं विनिवृत्तस्य जागरात्
मा कुरु व्रतभङ्गं मे रक्षो नारायणस्य हि
सुधनस्य वचः श्रुत्वा ब्रह्मरक्षः क्षुधार्दितः
मिथ्या प्रभाषसे साधो त्वं पुनः कथमेष्यसि
राक्षसस्य वचः श्रुत्वा स वणिग्वाक्यमब्रवीत्
सिद्धिं लभन्ते सत्येन ऋषयो वेदपारगाः
प्राप्तश्च मानुषो भावो विहितेनान्तरात्मना
कृत्वा जागरणं तत्र नृत्यं कृत्वा यथासुखम्
सत्येन दीयते कन्या सत्यं जल्पन्ति ब्राह्मणाः
स्वर्गमिच्छन्ति सत्येन मोक्षः सत्येन लभ्यते 155.
यमः सत्येन हरति सत्यादिन्द्रो विराजते