पुनरन्यत् प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
तत्र स्नात्वा च पीत्वा च नियतो नियताशनः
सोमतीर्थे तु वसुधे पवित्रे यमुनाम्भसि 154.
तत्राभिषेकं कुर्वीत स्वकर्मपरिनिष्ठितः
अथात्र मुंचते प्राणान्मम लोकं स गच्छति
तत्र स्नातो नरो देवि अवर्णोऽपि यतिर्भवेत्
यस्तत्र कुरुते स्नानं त्रिरात्रोपोषितो नरः
अथात्र मुंचते प्राणान्मम लोकं स गच्छति
तत्र ये स्नान्ति नियतास्तेषां स्वर्गो न दुर्लभः
ब्रह्मणा सृष्टिकाले तु मनसा निर्मितं पुरा
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
यत्र स्नातान्मनुष्यांश्च विघ्नराजो न पीडयेत्
तस्मिंस्तीर्थवरे स्नातं न पीडयति विघ्नराट् 154.
अविघ्नं कुरुते तस्य सततं पार्वतीसुतः
ततः परे कोटितीर्थे पवित्रं परमं स्मृतम्
तथात्र मुञ्चते प्राणाँल्लोभमोहविवर्जितः
अतः परं शिवक्षेत्रमर्द्धक्रोशं तु दुष्करम्
तत्र स्नात्वा च पीत्वा च माथुरं लभते फलम्
इति श्रीवराहपुराणे मथुरामाहात्म्ये यमुनातीर्थप्रभावो नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः
अथाऽक्रूरतीर्थप्रभावः पुनरन्यत्प्रवक्ष्यामि मर्त्त्यलोके सुदुर्लभम्
तत्र .नित्यं स्थितो देवि लोकानां हितकाम्यया
अयने विषुवे चैव तथा विष्णुपदीषु च
अक्रूरेति च विख्यातं मम क्षेत्रं वसुन्धरे
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः
तत्स्नानात्फलमाप्नोति प्रयागस्नानजं फलम्
नाम्ना तु सुधनो नाम मम भक्तः सदैव हि
बन्धुपुत्रकलत्रैश्च गृहे प्रीतिरनुत्तमा
गच्छन्ति दिवसास्तस्य मासाः संवत्सरास्तथा
मानकूटं तुलाकूटं न करोति स कर्हिचित् 155.
नित्यं कालं च कुरुते हरिपूजनमुत्तमम्