विमलस्य च कुण्डे तु सर्वपापैः प्रमुच्यते
पंचमं बकुलं नाम वनानामुत्तमं वनम्
यमुनायाः परे पारे देवानामपि दुर्ल्लभम् 153.
तत्र गत्वा तु वसुधे मद्भक्तो मत्परायणः
सप्तमं तु वनं भूमे खादिरं लोकविश्रुतम्
महावनं चाष्टमं तु सदैव तु मम प्रियम्
लोहजङ्घवनं नाम लोहजङ्घेन रक्षितम्
वनं बिल्ववनं नाम दशमं देवपूजितम्
एकादशं तु भाण्डीरं योगिनः प्रियमुत्तमम्
भाण्डीरं तमनुप्राप्य वनानां वनमुत्तमम्
वृन्दावनं द्वादशकं वृन्दया परिरक्षितम्
वृन्दावनं च गोविन्दं ये पश्यन्ति वसुन्धरे
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरामाहात्म्ये मथुरातीर्थमाहात्म्यं नाम त्रिपंचाशदधिकशततमोऽध्यायः
अथ यमुनातीर्थप्रभावः एवंविधां च मथुरां दृष्ट्वा तौ मुदमापतुः
पप्रच्छ च तदा भार्या यद्गुह्यं पूर्वभाषितम्
राजाप्युवाच तां राज्ञीं त्वयाप्युक्तं पुरा मम
तद्वदस्व स्वकं गुह्यं पश्चाद्वक्ष्याम्यहं तव
प्रोवाच चैव राजानं मनसः प्रीतिकारणम्
आगतेमां पुरीं द्रष्टुं कुमुदस्य तु द्वादशीम्
सद्यः प्राणैर्वियुक्ता च तत्तीर्थस्य प्रभावतः
त्वया विवाहिता राजन्न च मां विजहात्स्मृतिः
धारापतनके तीर्थे त्यक्त्वा जीवितमात्मनः
स्वां चाप्यकथयत्तस्यै यथा संयमने मृतः 154.
मां पश्यन्तौ नियमतस्तत्रैव निधनं गतौ
एतत्ते कथितं देवि आश्चर्यं यदभून्महत्
नाकलोकमवाप्नोति त्यक्तपापो न संशयः
विष्णुलोकमवाप्नोति दिव्यमूर्तिश्चतुर्भुजः
अथात्र मुंचते प्राणान्मम लोकं स गच्छति
यत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः
अथाऽत्र मुंचते प्राणान्मम लोकं स गच्छति