ततार यमुनां सोऽथ प्राप्य संयमनं शुभे
मग्नमात्रस्ततः पापः सद्यः प्राणैर्व्ययुज्यत
सौराष्ट्रविषये देवि क्षत्रियोऽभूद्धनुर्द्धरः 153.
पालयामास वसुधां क्षत्रधर्मं समाश्रितः
पत्नी शतानां मुख्यानां प्रवरा सा वसुन्घरे
प्रासादेषु च रम्येषु नदीनां पुलिनेषु च
कालो गच्छति राजा तु भोगासक्तिं च विंदति
पुत्राः सप्त तथा जाताः कन्याः पंच सुशोभनाः
पुत्रान्संस्थापयामास स्थानेषु वसुधाधिपान्
तत्र प्रबुद्धो नृपतिर्हाहेति वदते मुहुः
तत सा पीवरी प्राह किमेवं भाषसे नृप
मत्तः सुप्तः प्रमत्तश्च असम्बद्धं प्रभाषते
पीवर्युवाच प्राणांस्त्यक्ष्याम्यहं देव गोपयिष्यसि मे यदि ।। 153.
प्रियाया वचनं श्रुत्वा प्रत्युवाच नराधिपः
तत्र गत्वा यथातत्त्वं वदिष्यामि शुभानने
पुत्रान्संस्थाप्य दौहित्रान्स्वे स्थाने शुभान्प्रिये
ततः सम्मानयामास जनं पुरनिवासिनम्
राज्ये पुत्रान्नियोक्ष्यामि यदि वो रोचतेऽनघाः
नित्यमिच्छन्ति वै लोको यमस्येच्छन्ति नान्यथा
तस्मात्सर्वप्रयत्नेन गच्छावो मथुरां पुरीम्
इदानीं तु मया ज्ञातं त्यागान्नास्ति परं सुखम्
नास्ति रागसमं दुःखं नास्ति त्यागात्परं सुखम्
प्रायेण सर्वकामानां परित्यागो विशिष्यते 153.
ततः पौरजनं दृष्ट्वा चतुरङ्गबलान्वितः
तेन दृष्टा पुरी रम्या वासवस्य पुरी यथा
रम्यं मधुवनं नाम विष्णुस्थानमनुत्तमम्
एकादशी शुक्लपक्षे मासि भाद्रपदे तथा
वनं कुन्दवनं नाम तृतीयं चैवमुत्तमम्
एकादशी कृष्णपक्षे मासि भाद्रपदे हि वा
चतुर्थं काम्यकवनं वनानां वनमुत्तमम्