द्वादशैतानि तीर्थानि देवानां दुर्ल्लभानि च
येषां स्मरणमात्रेण सर्वपापैः प्रमुच्यते 152.
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रशंसा नाम द्वापंचाशदधिकशततमोऽध्यायः
अथ मथुरातीर्थमाहात्म्यम् उत्तरे शिवकुण्डाच्च तीर्थानां नवकं स्मृतम्
तत्रैव स्नानमात्रेण सौभाग्यं जायते परम्
तस्मिन् स्नातो नरो देवि मम लोके प्रपद्यते
तत्र स्नातो मृतो वापि मम लोकं स गच्छति
तस्मिन् संयमने तीर्थे यद्यद्वृत्तं पुरातनम्
वसते नैमिषारण्ये सुप्रतीतेऽतिपापकृत्
तत्र प्राप्य च कालिन्दीं कृष्णपक्षे चतुर्दशीम्
ततार यमुनां सोऽथ प्राप्य संयमनं शुभे
मग्नमात्रस्ततः पापः सद्यः प्राणैर्व्ययुज्यत
सौराष्ट्रविषये देवि क्षत्रियोऽभूद्धनुर्द्धरः 153.
पालयामास वसुधां क्षत्रधर्मं समाश्रितः
पत्नी शतानां मुख्यानां प्रवरा सा वसुन्घरे
प्रासादेषु च रम्येषु नदीनां पुलिनेषु च
कालो गच्छति राजा तु भोगासक्तिं च विंदति
पुत्राः सप्त तथा जाताः कन्याः पंच सुशोभनाः
पुत्रान्संस्थापयामास स्थानेषु वसुधाधिपान्
तत्र प्रबुद्धो नृपतिर्हाहेति वदते मुहुः
तत सा पीवरी प्राह किमेवं भाषसे नृप
मत्तः सुप्तः प्रमत्तश्च असम्बद्धं प्रभाषते
पीवर्युवाच प्राणांस्त्यक्ष्याम्यहं देव गोपयिष्यसि मे यदि ।। 153.
प्रियाया वचनं श्रुत्वा प्रत्युवाच नराधिपः
तत्र गत्वा यथातत्त्वं वदिष्यामि शुभानने
पुत्रान्संस्थाप्य दौहित्रान्स्वे स्थाने शुभान्प्रिये
ततः सम्मानयामास जनं पुरनिवासिनम्
राज्ये पुत्रान्नियोक्ष्यामि यदि वो रोचतेऽनघाः
नित्यमिच्छन्ति वै लोको यमस्येच्छन्ति नान्यथा
तस्मात्सर्वप्रयत्नेन गच्छावो मथुरां पुरीम्