ततः कालेन महता पंचत्वं समुपागतः
तस्मिन् वरगृहे देवि ब्राह्मणो योगिनां वरः 152.
तत्तीर्थस्य प्रभावेण जाता मुक्तिः सुदुर्ल्लभा
वैरोचनेन बलिना सूर्यस्त्वाराधितः पुरा
ऊर्द्ध्वबाहुर्निराहारस्तताप परमं तपः
तस्य प्रसन्नो भगवान् द्युमणिः प्रत्यभाषत
बलिरुवाच वित्तेनापि विहीनस्य कुटुम्बभरणं कृतः
मुकुटात्तस्य वै सूर्यो ददौ चिन्तामणिं ततः
तस्मिंस्तीर्थे नरः स्नातः सर्वपापैः प्रमुच्यते
आदित्याहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः
ध्रुवेण यत्र सन्तप्तं स्वेच्छया परमं तपः
तत्राथ मुञ्चते प्राणान्मम लोके महीयते 152.
पितॄंस्तारयते सर्वं पितृपक्षे विशेषतः
तस्मिन् स्नाते नरो देवि मम लोकं प्रपद्यते
तत्र स्नातो नरो देवि ऋषिलोकं प्रपद्यते
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थं परं मम
तत्र वै कोटितीर्थं हि देवानामपि दुर्ल्लभम्
कोटितीर्थे नरः स्नात्वा सन्तर्प्य पितृदेवताः
कोटितीर्थे नरः स्नात्वा ब्रह्मलोके महीयते
पिण्डदानात्तु तत्रैव पितृलोके स गच्छति तत्फलं लभते देवि ज्येष्ठे दानान्न संशयः
द्वादशैतानि तीर्थानि देवानां दुर्ल्लभानि च
येषां स्मरणमात्रेण सर्वपापैः प्रमुच्यते 152.
इति श्रीवराहपुराणे मथुरामाहात्म्ये मथुरातीर्थप्रशंसा नाम द्वापंचाशदधिकशततमोऽध्यायः
अथ मथुरातीर्थमाहात्म्यम् उत्तरे शिवकुण्डाच्च तीर्थानां नवकं स्मृतम्
तत्रैव स्नानमात्रेण सौभाग्यं जायते परम्
तस्मिन् स्नातो नरो देवि मम लोके प्रपद्यते
तत्र स्नातो मृतो वापि मम लोकं स गच्छति
तस्मिन् संयमने तीर्थे यद्यद्वृत्तं पुरातनम्
वसते नैमिषारण्ये सुप्रतीतेऽतिपापकृत्
तत्र प्राप्य च कालिन्दीं कृष्णपक्षे चतुर्दशीम्