मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः 152.
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः
विना सांख्येन योगेन मत्प्रसादान्न संशयः
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः
एका चन्दनसङ्काशा द्वितीया कनकप्रभा
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम्
गङ्गां प्राप्य प्रयागे या वेणीति प्रथिता भुवि 152.
यमुना विश्रुता देवि नात्र कार्या विचारणा
येषु स्नाने नरो देवि मम लोके महीयते
न जायत स मर्त्त्येषु जायते च चतुर्भुजः
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते
तत्फलं लभते देवि दृष्ट्वा देवं गतश्रमः
तत्फलं लभते स्नातो यथा विश्रान्तिसंज्ञके
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते
यस्मिन्स्नातो नरो देवि अग्निष्टोमफलं लभेत् 152.
अथात्र मुंचते प्राणान्मम लोके स गच्छति
स्नानमात्रेण तत्रापि नाकपृष्ठे स मोदते
तस्मिन्स्नातो नरो देवि मम लोके महीयते
पांचालविषये देवि काम्पिल्यं च पुरोत्तमम्
तस्मिंस्तु वसते देवि तिंदुको नाम नापितः
कालेन महता तस्य कुटुम्बं च क्षयं गतम्
सर्वसंगं परित्यज्य सोऽगच्छन्मथुरां तदा
तस्य कर्मशतं कृत्वा स्नात्वैव यमुनां नदीम्