सूत उवाच प्रणम्य शिरसा देवी वराहं पुनरब्रवीत्
पृथिव्युवाच एतान्हित्वा महाभाग मथुरां किं प्रशंसति ।। 152.
श्रीवराह उवाच मथुरेति च विख्यातं तस्मान्नास्ति परं मम
सा रम्या च सुशस्ता च जन्मभूमिस्तथा मम
तत्र वासी नरो याति मोक्षं नास्त्यत्र संशयः
तत्फलं लभते देवि मथुरायां दिने दिने
तत्फलं लभते देवि मथुरायां क्षणेन हि
तत्फलं लभते देवि मथुरायां जितेन्द्रियः
मूढो भ्रमति संसारे मोहितो मम मायया
अन्येनोच्चारितं शश्वत्सोऽपि पापैः प्रमुच्यते
मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः 152.
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः
विना सांख्येन योगेन मत्प्रसादान्न संशयः
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः
एका चन्दनसङ्काशा द्वितीया कनकप्रभा
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे
यमुना यत्र सुवहा नित्यं सन्निहिता ध्रुवम्
गङ्गां प्राप्य प्रयागे या वेणीति प्रथिता भुवि 152.
यमुना विश्रुता देवि नात्र कार्या विचारणा
येषु स्नाने नरो देवि मम लोके महीयते
न जायत स मर्त्त्येषु जायते च चतुर्भुजः
तथात्र मुञ्चते प्राणान्मम लोकं स गच्छति
यस्मिन्स्नातो नरो देवि मम लोकं प्रपद्यते
तत्फलं लभते देवि दृष्ट्वा देवं गतश्रमः
तत्फलं लभते स्नातो यथा विश्रान्तिसंज्ञके
कृत्वा प्रदक्षिणे द्वे तु विष्णुलोकं स गच्छति