माहात्म्यं पद्मपत्राक्षि गुह्यं यच्च महौजसम्
इति श्रीवराहपुराणे भगवच्छास्त्रे लोहार्गलमाहात्म्यं नामैकपंचाशदधिकशततमोऽध्यायः
अथ मथुरातीर्थ प्रशंसा श्रुत्वा देवस्य माहात्म्यं लोहार्गलनिवासिनः
धरण्युवाच त्वत्प्रसादाच्च देवेश श्रुतं शास्त्रं महौजसम्
तव शिष्या च दासी च त्वामहं शरणङ्गता
तव सम्भावनाद्देव जातास्मि कनकोज्ज्वला
जगद्धातुर्जगच्छास्त्रकृते न हि परिश्रमः
इति कृत्वा च मे देव त्वाह्लादो हृदि वर्त्तते
तीर्थं तद्वद कल्याणं तीर्थानामुत्तमोत्तमम्
श्रीवराह उवाच समानं मथुराया हि प्रियं मम वसुन्धरे
सूत उवाच प्रणम्य शिरसा देवी वराहं पुनरब्रवीत्
पृथिव्युवाच एतान्हित्वा महाभाग मथुरां किं प्रशंसति ।। 152.
श्रीवराह उवाच मथुरेति च विख्यातं तस्मान्नास्ति परं मम
सा रम्या च सुशस्ता च जन्मभूमिस्तथा मम
तत्र वासी नरो याति मोक्षं नास्त्यत्र संशयः
तत्फलं लभते देवि मथुरायां दिने दिने
तत्फलं लभते देवि मथुरायां क्षणेन हि
तत्फलं लभते देवि मथुरायां जितेन्द्रियः
मूढो भ्रमति संसारे मोहितो मम मायया
अन्येनोच्चारितं शश्वत्सोऽपि पापैः प्रमुच्यते
मथुरायां प्रयान्त्यत्र सुप्ते चैव जनार्दने
तृप्तिं प्रयान्ति पितरो यावत्स्थित्यग्रजन्मनः 152.
तेऽपि यान्ति परां सिद्धिं मत्प्रसादान्न संशयः
विना सांख्येन योगेन मत्प्रसादान्न संशयः
बलिभिक्षाप्रदातारो देवास्ते नरविग्रहाः
ययातिभूपवंशाच्च क्षत्रियः कुलवर्द्धनः
मूर्तिं चतुर्विधां कृत्वा स्थास्यामि ऋषिभिः स्तुतः
एका चन्दनसङ्काशा द्वितीया कनकप्रभा
तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये
यत्राहं पातयिष्यामि द्वात्रिंशत्तु वसुन्धरे