भूमिं नीत्वा जलं तत्र तिष्ठत्येव वरानने
गच्छत्यङ्गिरसो लोकं सुखभागी न संशयः
अग्निलोकं समुत्सृज्य मम लोकं स गच्छति
धारा चैका पतत्यत्र हिमकूटसमाश्रिता
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोदितः
सोऽपि याति परां सिद्धिं समुत्सृज्य बृहस्पतिम्
धारा चैका पतत्यत्र दृश्यते हिमसंश्रयात् 151.
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोहितः
अथात्र मुंचते प्राणान्मम कर्मपरायणः
कार्त्तिकेयस्य कुण्डं तु गुह्यं क्षेत्रं परं मम
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः
अथात्र मुंचते प्राणान्कृत्वा चान्द्रायणं शुचिः
उमाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्र स्नानं तु कुर्वीत दशरात्रोषितो नरः
अथ प्राणान्प्रमुंचेत दशरात्रोषितो नरः
महेश्वरस्य वै कुण्डं यत्र चोद्वाहिता उमा
तिस्रो धाराः पतन्त्यत्र हिमवत्पर्वताश्रिताः 151.
तत्र स्नानं तु कुर्वीत द्वादशाहोषितो नरः
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम्
प्रख्यातं ब्रह्मकुण्डं तु वेदा यत्र समुत्थिताः
ततः पूर्वेण पार्श्वेन समा धारा पतेच्छुभा
पुनरस्योत्तरे पार्श्वे सुवर्णसदृशोपमा
अथ पश्चिमपार्श्वेन यजुर्वेदेन संयुता
एका धारा पतत्यत्र इन्द्रगोपकसन्निभा
ब्रह्मलोकं समासाद्य ब्रह्मणा सह मोदते
सिद्धिकामेन मर्त्येन गन्तव्यं नात्र संशयः 151.
न तस्य कर्म विद्येत स एवमपि संस्थितः
पवित्राणां पवित्रं तु न देयं यस्य कस्यचित्
तारितानि कुलानि स्युरुभयत्र दशापि च
यदीच्छेत्परमां सिद्धिं सर्वसंसारमोक्षणीम्