वासिष्ठं लोकमासाद्य मोदते नात्र संशयः ।४३ वासिष्ठं लोकमुत्सृज्य मम लोकं प्रपद्यते
पंच धाराः पतन्त्यत्र हिमकूटविनिःसृताः
स तत्र गच्छेद्वै भूमे यत्र पंचशिखो मुनिः
पंचचूडं समुत्सृज्य स याति परमां गतिम्
सप्त धाराः पतन्त्यत्र हिमवत्पर्वतस्थिताः
मोदते ऋषिलोकेषु ऋषिकन्याभिसंवृतः
सप्तर्षीन्स समुत्सृज्य मोदते मम संस्थितः 151.
तत्र धारा पतत्येका शरभङ्गश्रिता नदी
मोदते तस्य लोकेषु ऋषिकन्याप्रमोदितः
शरभङ्गं समुत्सृज्य मम लोके महीयते
भूमिं नीत्वा जलं तत्र तिष्ठत्येव वरानने
गच्छत्यङ्गिरसो लोकं सुखभागी न संशयः
अग्निलोकं समुत्सृज्य मम लोकं स गच्छति
धारा चैका पतत्यत्र हिमकूटसमाश्रिता
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोदितः
सोऽपि याति परां सिद्धिं समुत्सृज्य बृहस्पतिम्
धारा चैका पतत्यत्र दृश्यते हिमसंश्रयात् 151.
गत्वा बृहस्पतेर्लोकं मुनिकन्याभिमोहितः
अथात्र मुंचते प्राणान्मम कर्मपरायणः
कार्त्तिकेयस्य कुण्डं तु गुह्यं क्षेत्रं परं मम
तत्र स्नानं प्रकुर्वीत षष्ठकालोषितो नरः
अथात्र मुंचते प्राणान्कृत्वा चान्द्रायणं शुचिः
उमाकुण्डमिति ख्यातं तस्मिन्क्षेत्रे परं मम
तत्र स्नानं तु कुर्वीत दशरात्रोषितो नरः
अथ प्राणान्प्रमुंचेत दशरात्रोषितो नरः
महेश्वरस्य वै कुण्डं यत्र चोद्वाहिता उमा
तिस्रो धाराः पतन्त्यत्र हिमवत्पर्वताश्रिताः 151.
तत्र स्नानं तु कुर्वीत द्वादशाहोषितो नरः
अथात्र मुञ्चते प्राणान्कृत्वा कर्म सुदुष्करम्
प्रख्यातं ब्रह्मकुण्डं तु वेदा यत्र समुत्थिताः