एते स्म पितरः श्राद्धे योगिनां योगवर्द्धनाः । आप्यायितास्तु ते पूर्वं योगं योगबले रतौ ।। १३.
तस्माच्छ्राद्धानि देयानि योगिनां योगिसत्तम । एष वै प्रथमः सर्गः सोमपानामनुत्तमः ।। १३.
एते त एकतनवो वर्तन्ते द्बिजसत्तमाः । भूर्लोकवासिनां याज्याः स्वर्गलोकनिवासिनः १३.
कल्पवासिकसंज्ञानां तेषामपि जने गताः । सनकाद्यास्ततस्तेषां वैराजास्तपसि स्थिताः । तेषां सत्यगता मुक्ता इत्येषा पितृसंततिः ।। १३.
अग्निष्वात्तेति मारीच्या वैराजा बर्हिसंज्ञिताः । सुकालेयापि पितरो वसिष्ठस्य प्रजापतेः । तेऽपि याज्यास्त्रिभिर्वर्णैर्न शूद्रेण पृथक्कृतम् ।। १३.
वर्णत्रयाभ्यनुज्ञातः शूद्रः सर्वान् पितृन् यजेत् । न तु तस्य पृथक् सन्ति पितरः शूद्रजातयः ।। १३.
मुक्तश्चेतनको ब्रह्मन् ननु विप्रेषु दृश्यते । विशेषशास्त्रदृष्ट्या तु पुराणानां च दर्शनात् ।। १३.
एवं ऋषिस्तुतैः शास्त्रं ज्ञात्वा याज्यकसंभवान् । स्वयं सृष्ट्यां स्मृतिर्लब्धा पुत्राणां ब्रह्मणा ततः । परं निर्वाणमापन्नास्तेऽपि ज्ञानेन एव च ।। १३.
वस्वादीनां कश्यपाद्या वर्णानां वसवादयः । अविशेषेण विज्ञेया गन्धर्वाद्या अपि ध्रुवम् ।। १३.
एष ते पैतृकः सर्ग उद्देशेन महामुने । कथितो नान्त एवास्य वर्षकोट्या हि दृश्यते ।। १३.
श्राद्धस्य कालान् वक्ष्यामि तान् श्रृणुष्व द्विजोत्तम । श्राद्धार्हमागतं द्रव्यं विशिष्टमथवा द्विजम् ।। १३.
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयने तथा । विषुवे चैव संप्राप्ते ग्रहणे शशिसूर्ययोः । समस्तेष्वेव विप्रेन्द्र राशिष्वर्केऽतिगच्छति ।। १३.
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ।। १३.
अमावास्या यदा आर्द्राविशाखास्वातियोगिनो । श्राद्धैः पितृगणस्तृप्तिं तदाप्नोत्यष्टवार्षिकीम् ।। १३.
अमावस्या यदा पुष्ये रौद्रेऽथर्क्षे पुनर्वसौ । द्वादशाब्दं तथा तृप्तिं प्रयान्ति पितरोऽर्च्चिताः ।। १३.
वासवाजैकपादर्क्षे पितॄणां तृप्तिमिच्छताम् । वारुणे चाप्यमावास्या देवानामपि दुर्लभा ।। १३.
नवस्वर्क्षेष्वमावास्या यदा तेषु द्विजोत्तम । तदा श्राद्धानि देयानि अक्षय्यफलमिच्छताम् । अपि कोटिसहस्त्रेण पुण्यस्यान्तो न विद्यते ।। १३.
अथापरं पितरः श्राद्धकालं रहस्यमस्मत् प्रवदन्ति पुण्यम् । वैशाखमासस्य तु या तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे ।। १३.
नभस्यमासस्य तमिस्त्रपक्षे त्रयोदशी पञ्चदशी च माघे । उपप्लवे चन्द्रमसो रवेश्च तथाष्टकास्वप्ययनद्वये च ।। १३.
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाःसहस्त्रं रहस्यमेतत् पितरो वदन्ति ।। १३.
माघासिते पञ्चदशी कदाचि- दुपैति योगं यदि वारुणेन । ऋक्षेण कालः परमः पितॄणां न त्वल्पपुण्यैर्द्विज लभ्यतेऽसौ ।। १३.
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु विप्रेन्द्र सदा पितृभ्यः । दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ।। १३.
तत्रैव चेद् भाद्रपदास्तु पूर्वाः काले तदा यैः क्रियते पितृभ्यः । श्राद्धं परा तृप्तिमुपेत्य तेन युगं समग्रं पितरः स्वपन्ति १३.
गङ्गासरयूमथवा विपाशां सरस्वतीं नैमिषगोमतीं वा । ततोऽवगाह्यार्चनमादरेण कृत्वा पितॄणामहितानि हन्ति ।। १३.
गायन्ति चैतत् पितरः कदा तु वर्षामघातृप्तिमवाप्य भूयः । माघासितान्ते शुभतीर्थतोयै- र्यास्याम तृप्तिं तनयादिदत्तैः ।। १३.
चित्तं च वित्तं च नृणां विशुद्धं शस्तश्च कालः कथितो विधिश्च । पात्रं यथोक्तं परमा च भक्ति- र्नृणां प्रयच्छन्त्यभिवाञ्छितानि ।। १३.
पितृगीतास्तथैवात्र श्लोकास्तान् श्रृणु सत्तम । श्रुत्वा तथैव भविता भाव्यं तत्र विधात्मना ।। १३.
अपि धन्यः कुले जायादस्माकं मतिमान् नरः । अकुर्वन् वित्तशाठ्यं यः पिण्डान् यो निर्वपिष्यति ।। १३.
रत्नवस्त्रमहायानं सर्वं भोगादिकं वसु । विभवे सति विप्रेभ्यो अस्मानुद्दिश्य दास्यति ।। १३.
अन्नेन वा यथाशक्त्या कालेऽस्मिन् भक्तिनम्रधीः । भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ।। १३.