मार्गणा मे धनुस्तत्र अक्षसूत्रं कमण्डलुः
श्वेतपर्वतमारुह्य पतमानः कुरून्बहून्
अनेकान्येव रूपाणि पातयित्वा नभस्तलात्
सूत उवाच विस्मयं परमं प्राप्तो विष्णुमायोपबृंहितः
ततः स विस्मयाविष्टो ब्रह्मपुत्रो महामतिः
सनत्कुमार उवाच देवि यल्लोकनाथस्य साक्षाद्दर्शनमागता
पद्मपत्रविशालाक्षो यत्त्वया परिभाषितः
यथा यथा वदसि च धर्मसंहितं गुह्यं परं देववरप्रणीतम् 151.
ततः स पुण्डरीकाक्षः किमाचष्ट ततः परम्
( सूतउवाच) उवाच मधुरं वाक्यमाभाष्य ब्रह्मणः सुतम्
शृणु वत्स जगन्नाथो यथा मामाह चोदितः एवं तत्रैव कर्माणि क्रियन्ते विधिपूर्वकम्
शोधकानि च पापानां मृदूनि च शुभानि च
नान्यं वहन्ति ते चाश्वा मम वाहा दुरत्ययाः
चतुर्धाराः पतन्त्यत्र शङ्खवर्णा मनोजवाः
लोकं चैत्राङ्गदं गत्वा गन्धर्वैः सह मोदते
गन्धर्वलोकमुत्सृज्य मम लोकं स गच्छति
पंच धाराः पतन्त्यत्र तालवृक्षसमोपमाः
देवर्षिनारदं पश्येन्मोदते तेन वै समम् 151.
प्रमुच्य नारदं द्विव्यं ममलोकं च गच्छति
धाराः पतन्ति तिस्रस्तु न स्थूला नाति वै कृशाः
वासिष्ठं लोकमासाद्य मोदते नात्र संशयः ।४३ वासिष्ठं लोकमुत्सृज्य मम लोकं प्रपद्यते
पंच धाराः पतन्त्यत्र हिमकूटविनिःसृताः
स तत्र गच्छेद्वै भूमे यत्र पंचशिखो मुनिः
पंचचूडं समुत्सृज्य स याति परमां गतिम्
सप्त धाराः पतन्त्यत्र हिमवत्पर्वतस्थिताः
मोदते ऋषिलोकेषु ऋषिकन्याभिसंवृतः
सप्तर्षीन्स समुत्सृज्य मोदते मम संस्थितः 151.
तत्र धारा पतत्येका शरभङ्गश्रिता नदी
मोदते तस्य लोकेषु ऋषिकन्याप्रमोदितः
शरभङ्गं समुत्सृज्य मम लोके महीयते