अपरं वाऽस्ति चेत्किंचिद्गुह्यं क्षेत्रं शुभावहम्
सुरकरण नृसिंह लोकनाथ युतससुरसुरधीर देववीर
गद्गदं वचनं श्रुत्वा पृथिव्याः स जनार्दनः
श्रीवराह उवाच गुह्यमन्यत्प्रवक्ष्यामि मद्व्रतः कर्मणो जनिः
ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः
तत्र लोहार्गले क्षेत्रे निवासो विहितः शुभः
दुर्गमं दुःसहं चैव पापैः सर्वत्र वेष्टितम्
तत्र तिष्ठाम्यहं भद्रे उदीचीं दिशमाश्रितः 151.
ततो मे दानवाः सर्वे क्रमन्तो लोकमुत्तमम्
तत्र ब्रह्मा च रुद्राश्च स्कन्देन्द्रो समुरुद्गणाः
सोमो बृहस्पतिश्चैव ये चान्ये वै दिवौकसः
शतकोटिसहस्राणि शीघ्रमेव निपातितम्
एवं लोहार्गलं नाम क्षेत्रं चैव मया कृतम्
तेषां संस्थापनं तत्र कृतं चैव महौजसाम्
सोपि भागवतो भूमे भवत्येव सुनिष्ठितः
उपोष्य च त्रिरात्रं तु विधिदृष्टेन कर्मणा
अथात्र मुंचते प्राणान्स्वकर्मपरिनिष्ठितः
अन्यच्च ते प्रवक्ष्यामि यत्र तत्परमाद्भुतम् 151.
चतुर्विंशतिद्वादश्यां मासेन विधिना मम
अश्वो मे कल्पितस्तत्र सर्वरत्नविभूषितः
मार्गणा मे धनुस्तत्र अक्षसूत्रं कमण्डलुः
श्वेतपर्वतमारुह्य पतमानः कुरून्बहून्
अनेकान्येव रूपाणि पातयित्वा नभस्तलात्
सूत उवाच विस्मयं परमं प्राप्तो विष्णुमायोपबृंहितः
ततः स विस्मयाविष्टो ब्रह्मपुत्रो महामतिः
सनत्कुमार उवाच देवि यल्लोकनाथस्य साक्षाद्दर्शनमागता
पद्मपत्रविशालाक्षो यत्त्वया परिभाषितः
यथा यथा वदसि च धर्मसंहितं गुह्यं परं देववरप्रणीतम् 151.
ततः स पुण्डरीकाक्षः किमाचष्ट ततः परम्
( सूतउवाच) उवाच मधुरं वाक्यमाभाष्य ब्रह्मणः सुतम्