ऋषिलोकं ततो गत्वा पश्येत्तत्राप्यरुन्धतीम्
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते
वर्षाणि द्वादशैतेन नमस्कारः कृतो भवेत्
पापात्मानो न पश्यन्ति मम मायाविमोहिताः
तत्र पश्यन्ति सुश्रोणि शुद्धा भागवता नराः
जटाकुण्डमिति ख्यातं वायव्यां दिशि संस्थितम्
मलयस्य दक्षिणेन समुद्रस्योत्तरे तथा 150.
अगस्तिभक्नं गत्वा मोदते नात्र संशयः
अगस्तिभवनं त्यक्त्वा मम लोकं तु गच्छति
विस्तारश्च महाभागे अगाधश्च महार्णवः
यच्च पश्यति सुश्रोणि समन्तादितरो जनः
न वर्द्धते ततश्चाम्भो यावत्तिष्ठति तत्पुनः
आश्चर्यं च प्रमाणं च भक्तिकीर्त्तिविवर्द्धनम्
यस्तु गच्छति सुश्रोणि अष्टभक्तपथे स्थितः
य एतत्पठते नित्यं यश्चैवं शृणुयान्मुदा
एतन्मरणकाले न विस्मर्त्तव्यं कदाचन
एतत्ते कथितं भद्रे त्वया पृष्टं च मां प्रति 150.
इति श्रीवराहपुराणे भगवच्छास्त्रे सानंदूरमाहात्म्यं नाम पंचाशदधिकशततमोऽध्यायः
अथ लोहार्गलमाहात्म्यम् सानन्दूरस्य माहात्म्यमेतच्छ्रुत्वा वसुन्धरा
धरण्युवाच यच्छ्रुत्वा सुमहाभाग जाताऽस्मि विगतज्वरा
अपरं वाऽस्ति चेत्किंचिद्गुह्यं क्षेत्रं शुभावहम्
सुरकरण नृसिंह लोकनाथ युतससुरसुरधीर देववीर
गद्गदं वचनं श्रुत्वा पृथिव्याः स जनार्दनः
श्रीवराह उवाच गुह्यमन्यत्प्रवक्ष्यामि मद्व्रतः कर्मणो जनिः
ततः सिद्धवटे गत्वा त्रिंशद्योजनदूरतः
तत्र लोहार्गले क्षेत्रे निवासो विहितः शुभः
दुर्गमं दुःसहं चैव पापैः सर्वत्र वेष्टितम्
तत्र तिष्ठाम्यहं भद्रे उदीचीं दिशमाश्रितः 151.
ततो मे दानवाः सर्वे क्रमन्तो लोकमुत्तमम्
तत्र ब्रह्मा च रुद्राश्च स्कन्देन्द्रो समुरुद्गणाः