ब्रह्मणा समनुज्ञातो मम लोकं च गच्छति
मद्भक्ता यच्च पश्यन्ति घोरसंसारमोक्षणम्
भूमे पतति मध्याह्ने यावत्सूर्यस्तु तिष्ठति
एवं तत्र महाश्चर्यं पुण्यब्रह्मसरोवरे
समुद्रश्चैव रामश्च समेष्येते वराङ्गने
बहुगुल्मलताकीर्णं शोभितं च विहङ्गमैः
मण्डितं कुमुदैः पद्मैः सुगन्धैश्चोत्तमैस्तया 150.
समुद्रभवनं गत्वा मम लोकं प्रपद्यते
यद्दृष्ट्वा मनुजास्तत्र भ्रमन्ति विगतज्वराः
एकमप्यत्र पश्यन्ति न केपि वसुधे नराः
प्रपन्नेनापि मार्गं तच्छिद्रं तत्र न पश्यति
तत्र पूर्वेण पार्श्वेण ह्यदूरादर्द्धयोजनात्
धाराः पतन्ति कल्याणि प्रसन्नसलिलास्तथा
चतुर्णां लोकपालानां लोकानाप्नोति चोत्तमान्
लोकपालान्समुत्सृज्य मम लोकेषु मोदते
शुद्धैर्भागवतैर्भूमे सर्वसंसार मोक्षणम्
न च तद्वर्द्धते चाम्भो न चैव परिहीयते 150.
श्रूयते गीतनिर्घोषः श्रुतिकर्ममनोहरः
जामदग्न्यस्य रामस्य स्वाश्रमोऽथ भविष्यति
शाल्मलीं चाग्रतः कृत्वाधिष्ठितश्चोत्तरामुखः
ऋषिलोकं ततो गत्वा पश्येत्तत्राप्यरुन्धतीम्
ऋषिलोकं परित्यज्य मम लोकं प्रपद्यते
वर्षाणि द्वादशैतेन नमस्कारः कृतो भवेत्
पापात्मानो न पश्यन्ति मम मायाविमोहिताः
तत्र पश्यन्ति सुश्रोणि शुद्धा भागवता नराः
जटाकुण्डमिति ख्यातं वायव्यां दिशि संस्थितम्
मलयस्य दक्षिणेन समुद्रस्योत्तरे तथा 150.
अगस्तिभक्नं गत्वा मोदते नात्र संशयः
अगस्तिभवनं त्यक्त्वा मम लोकं तु गच्छति
विस्तारश्च महाभागे अगाधश्च महार्णवः