ततो महीवचः श्रुत्वा विष्णुः कमललोचनः
श्रीवराह उवाच उत्तरे तु समुद्रस्य मलयस्य तु दक्षिणे
तत्र तिष्ठामि वसुधे उदीचीं दिशमाश्रितः
आयसीं तां वदन्त्येके अन्ये ताम्रमयीं तया
शिलामयीमित्यपरे महदाश्चर्यरूपिणीम्
मनुजा यत्र मुच्यन्ते गताः संसारसागरम्
सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे 150.
तत्रापि शृणु चाश्चर्यं यश्चापि परिवर्त्तते
समुद्रमध्ये तिष्ठन्तं कोऽपि तत्र न पश्यति
मम भक्ता हि पश्यंति विद्यमाना स्वकर्मणा
क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्मिणा
तावत्कश्चिन्न गृह्णाति यावत्तेन न भक्षितः
अगाधं चाप्यपारं च रक्तपद्मविभूषितम्
बुधस्य भवनं गत्वा मोदते नात्र संशयः
बुधस्य भवनं त्यक्त्वा मम लोकं प्रपद्यते
मनुजास्तन्न पश्यन्ति मम कर्मरता न ये
मनोज्ञं रमणीयं च जलजैश्चापि संवृतम् 150.
एकं तु दृश्यते श्वेतमब्जं रुक्ममयं तथा
धारा चैका प्रपतति स्थूला मुसलसन्निभा
ब्रह्मलोकं समासाद्य मोदते नात्र संशयः
ब्रह्मणा समनुज्ञातो मम लोकं च गच्छति
मद्भक्ता यच्च पश्यन्ति घोरसंसारमोक्षणम्
भूमे पतति मध्याह्ने यावत्सूर्यस्तु तिष्ठति
एवं तत्र महाश्चर्यं पुण्यब्रह्मसरोवरे
समुद्रश्चैव रामश्च समेष्येते वराङ्गने
बहुगुल्मलताकीर्णं शोभितं च विहङ्गमैः
मण्डितं कुमुदैः पद्मैः सुगन्धैश्चोत्तमैस्तया 150.
समुद्रभवनं गत्वा मम लोकं प्रपद्यते
यद्दृष्ट्वा मनुजास्तत्र भ्रमन्ति विगतज्वराः
एकमप्यत्र पश्यन्ति न केपि वसुधे नराः