पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि
स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः
पंचक्रोशसुविस्तारः शोभते वै महाद्रुमः
बहुमत्स्यजलाकीर्णं सर्वतस्तु फलान्वितम्
तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः
अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु
मध्याह्ने च पुनः पूर्णश्चार्द्धरात्रे समो वहेत्
तस्य पश्चिमपार्श्वे तु बिल्वश्चैव महाद्रुमः 149.
पश्येत्तु शुभकर्मा च पापकर्मा न पश्यति
यस्तत्र लभते पुष्पं मम मार्गानुसारकः
विष्णुसंक्रमणं नाम तस्मिन्क्षेत्रे परे मम
तत्र कुंडं महाभागे मणिपूरगिरा श्रुतम्
सूर्यलोकं समुत्सृज्य मम लोके महीयते
पापिनां यस्तु दुर्दर्शः सुदृश्यः पुण्यचारिणाम्
चतुर्विंशतिद्वादश्यां मध्याह्ने तु दिवाकरे
उच्चश्चैव विशालश्च मनोज्ञश्चैव शीतलः
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः
सर्वभागवतप्रीतिं समुद्रतटमाश्रितः 149.
त्रयस्तत्रैव तिष्ठामो द्वारकायां यशस्विनि
त्रिंशद्योजनविस्तारः सर्वतस्तु दिशो दश
अदीर्घेणैव कालेन प्राप्नुवंति परां गतिम्
धर्माणां परमो धर्मो द्युतीनां परमा द्युतिः
श्रुतीनां परमं श्रेष्ठं तपसा च परं तपः
यदीच्छेत्परमां सिद्धिं मम लोकं स गच्छति
सकुल्यास्तारितास्तेन सप्त सप्त च सप्त च
उचितेनोपचारेण किमन्यत्परिपृच्छति
इति श्रीवराहपुराणे भगवच्छास्त्रे द्वारकामाहात्म्यं नामैकोनपंचाशदधिकशततमोऽध्यायः
अथ सानन्दूरमाहात्म्यम् द्वारकायास्तु माहात्म्यं श्रुत्वा ह्येतत्सुभाषितम्
धरण्युवाच श्रुत्वैतत्परमं पुण्यं प्राप्तास्मि परमां श्रियम्
एतस्मादपि चेद्गुह्यं लोकनाथ जनार्दन