हंसाश्चैवात्र दृश्यन्ते चन्द्रकुन्दसमप्रभाः
लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः
वृष्णयो यत्र वै शुद्धाः संप्राप्ताश्च ममालयम्
मोदते ऋषिलोकेषु पुण्यात्मा वै न संशयः
कदम्बात्पतते धारा तत्र पूर्वविनिःसृता
पुष्पाणि वै प्रकटयत्युदयस्थे दिवाकरे
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः
पंच धाराः पतन्त्यत्र मणिपूरसमाश्रिताः 149.
दशवर्षसहस्राणि स्वर्गलोके स मोदते
सर्वान्स्वर्गान्समुत्सृज्य मम लोकं स गच्छति
अन्यथैतन्न पश्यन्ति मम कर्मपरायणाः
श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः
दुर्ल्लभः पापिनां चैव सुलभः पुण्यकर्मिणाम्
पुष्प्यते सोऽथ तत्रापि सूर्ये चाभ्युदिते सति
ते लभन्ते परां सिद्धिं एवं भूमे न संशयः
सर्वलोकेषु विख्यातं यत्र विक्रीडितं मया
बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः 149.
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु
पतन्ति सर्ववृक्षाणां पत्राणि सुबहून्यपि
स च पूर्वेण पार्श्वेन शोभते वै महाद्रुमः
पंचक्रोशसुविस्तारः शोभते वै महाद्रुमः
बहुमत्स्यजलाकीर्णं सर्वतस्तु फलान्वितम्
तत्राभिषेकं कुर्वीत अष्टभक्तोषितो नरः
अत्राश्चर्यं महाभागे कथ्यमानं मया शृणु
मध्याह्ने च पुनः पूर्णश्चार्द्धरात्रे समो वहेत्
तस्य पश्चिमपार्श्वे तु बिल्वश्चैव महाद्रुमः 149.
पश्येत्तु शुभकर्मा च पापकर्मा न पश्यति
यस्तत्र लभते पुष्पं मम मार्गानुसारकः