रौप्यं सुवर्णकं पद्मं दृश्यते नात्र संशयः
चतुर्धाराः पतन्त्यत्र मणिपूरगिरिं श्रिताः
वैखानसेषु लोकेषु मोदते नाऽत्र संशयः
त्यक्त्वा वैखानसाँल्लोकान्मम लोकं स गच्छति
दृश्यन्ते यानि कुण्डेषु मणिपूरगिरौ तथा
स्नायमानेषु पापेषु न पतेत्तद्यथा पुरा
धारा चैका पतत्यत्र मणिपूरगिरौ श्रिता
मुक्तसंगो महाभागे मोदते वरुणालये
वारुणं लोकमुत्सृज्य मम लोके महीयते 149.
शुद्धाः पश्यन्ति मनुजाः पापकर्मा न पश्यति
हंसाश्चैवात्र दृश्यन्ते चन्द्रकुन्दसमप्रभाः
लभन्ते ते परां सिद्धिं धरे नास्त्यत्र संशयः
वृष्णयो यत्र वै शुद्धाः संप्राप्ताश्च ममालयम्
मोदते ऋषिलोकेषु पुण्यात्मा वै न संशयः
कदम्बात्पतते धारा तत्र पूर्वविनिःसृता
पुष्पाणि वै प्रकटयत्युदयस्थे दिवाकरे
ते लभन्ते परां सिद्धिमेवमेतन्न संशयः
पंच धाराः पतन्त्यत्र मणिपूरसमाश्रिताः 149.
दशवर्षसहस्राणि स्वर्गलोके स मोदते
सर्वान्स्वर्गान्समुत्सृज्य मम लोकं स गच्छति
अन्यथैतन्न पश्यन्ति मम कर्मपरायणाः
श्रूयते तत्र निर्घोषो मनःकर्णसुखावहः
दुर्ल्लभः पापिनां चैव सुलभः पुण्यकर्मिणाम्
पुष्प्यते सोऽथ तत्रापि सूर्ये चाभ्युदिते सति
ते लभन्ते परां सिद्धिं एवं भूमे न संशयः
सर्वलोकेषु विख्यातं यत्र विक्रीडितं मया
बहुवर्णशिलापङ्क्तिर्गुहाश्चापि दिशो दश
तत्राभिषेकं कुर्वीत षष्ठकालोषितो नरः 149.
अथात्र मुंचते प्राणान्मम कर्मसु निष्ठितः
तत्राश्चर्यं महाभागे कथ्यमानं मया शृणु